Tuesday, December 7, 2021

YagnaTathwa Prakashika -025

 


यज्ञतत्त्वप्रकाशे  

धार्यः । इतरावग्नी तत्तत्कर्मकाले गार्हपत्यादुद्धृत्य स्वस्वायतने स्थाप्यते । यदर्थमुद्धृतौ तौ तत्कर्मसमाप्यनन्तरं तथैव परित्यज्यते । तौ तत्रैव शान्तौ भवतः । पुनः कर्मकाले तौ नवीनतया गार्हपत्यात् प्रणीय स्वस्वकुण्डे स्थापयित्वा कर्मकरणम् । सायं प्रातश्च होमकाले, रात्रौ च यजमानस्तत्पनी वा, अग्न्यगारेऽवश्यं वर्तेत, न अन्यत्र गच्छेत् । अन्यतरेण गृहेऽवश्यं स्थातव्यम् । द्वयोरपि बहिनामान्तरगमनावश्यकतायां सहैव अग्निभिः गच्छेताम् ।। ___ 

अग्निसमारोपणादि. 

तत्र यजमानोग्नीनरण्योरात्मनि वा समारोप्य पन्या आन्वारब्ध एव गच्छन्मौनेन । गन्तव्यदेशं प्राप्य, पूर्व समारोपितानग्नीन् मन्त्रेणोपावरोहयेत् । तत्र आत्मसमारोपणे गन्तव्यदेशप्राप्त्यनन्तरं लौकिकमग्नि शिष्टवैदिकगृहादाहृत्य तस्मिन्नात्मसमारोपितमग्नि मन्त्रेणोपावरोहयेत् । अरणिसमारोपणे तु गन्तव्यदेशावधि ते अरणी यजमान एव स्वहस्त आदाय गच्छेत् । गत्वा तत्र अरणी मथित्वा तत उत्पन्नेऽग्नौ उपावरोहणं कुर्यात् । गृह एव अग्नि परित्यज्य, पत्नीयजमानयोरुभयोरपि बहिर्गमनेऽग्निविनाशो भवेत् । तदा पुनरग्निमत्त्वसिद्धये पुनराधानमेव 

_________________________________________________________________________

  • क. अत्र धारण नाम-----गार्हपत्यकुण्डेऽन्तः करीषपिण्डं निक्षिप्य तदुपरि गाहपत्यामिं प्रज्वलय्य, पिण्डे तं सङ्क्रमयेत् । तत्र सङ्क्रान्तोऽमियथा सर्वदा तिष्ठेत् तथा रक्षणमेव । न तु तस्य सर्वदा प्रज्वालनम् । एवमेव (गतश्रियः) लब्धधनस्य, प्रामनेतुः, राजन्यस्य च त्रयाणां पञ्चानां वा अमीनामजस्ररक्षणम् । होमकाले तु कुण्डान्तःस्थान् तान् करीबपिण्डान् सानीन् बहिरुद्धृत्य, पुनस्तत्तत्कुण्डानामन्तः करीषपिण्डान्तराणि निक्षिप्य, तांस्तुपैः भस्मना वा आच्छाद्य, तदुपरि पूर्वाद्धृतान् तांस्ताननीनवस्थाप्य प्रज्वलय्य तत्र जुहुयादित्येव याज्ञिकसंप्रदायः। 
  • ख. समारोपणं नाम - गार्हपत्यकुण्डगतस्य अमेररण्योगरोहणार्थ मन्त्रेण प्रार्थना । तथा आरूढत्वेन मनसा चिन्तनं च । ग. उपावरोहणं नाम - लौकिके, अरणिमथिते वा अनी मन्त्रेण अवतारणम् , तथा चिन्तनं च। 
  • घ. अग्निविनाशो नाम - अमिनिष्ठाहवनीयत्वाद्यदृष्टधर्मविनाशः । न तु स्वरूपनाशः । तत्स्वरूपस्य तथैव अवस्थितेः । पुनस्तादृशादृष्टोत्पादनार्थमेव च पुनराधानानुष्ठानम्।

YagnaTathwa Prakashika -024

 

अग्निहोत्रप्रशंसा 

तृणमङ्क्त्वा , तदाहवनीये प्रहृत्य, अग्निहोत्रस्थाली प्रक्षाल्य, हविरुननयनदेशे तज्जलं निनयेत् । ततो यजमानो वेद्यां हस्तं प्रसार्य, तस्मिन्नप आसिच्य ताः स्वशिरस्यानयेत् । एतदन्तमग्निहोत्राख्यं कर्मोच्यते ।। 

अग्निहोत्रे कर्ता 

इदमग्निहोत्रं सायंप्रातःकालयोः यजमानः स्वयमेव जुहुयात् । यदि न शक्यते तर्हि पुत्रादिभिः ऋत्विजा वा कारयेत् । पर्वणि तु (पौर्णमास्याम् अमावास्यायां वा) यजमान एव जुहुयात् , नान्यहवियेत् । तत्र नित्यद्रव्यं पयः, दधि, यवागूश्च । एतेषामेव फलार्थतयाप्यनुष्ठानम् । तत्र पशुकामः स्वर्गकामो वा पयसा जुहुयात् । इन्द्रियकामो दना, यवाग्वा ग्रामकामः, ओदनेन अन्नकामः, तण्डुलैरोजस्कामो बलकामो वा । तेजस्कामो घृतेन इति काम्यानि द्रव्याणि ।। 

अग्निहोत्रप्रशंसा 

इदं च अग्निहोत्रं गृहस्थेनैव सभार्येण सता अवश्यमनुष्ठेयम् । कस्यामप्यवस्थायामग्निहोत्ररहितेन न स्थातव्यं त्रैवर्णिकेन । दीनो धनी वा सर्वोऽपीदमनुतिष्ठेत् यावत् जीवति । सत्स्वप्यतिमहत्सु. बहुवर्षे. बहुव्ययसाध्येषु क्रतुषु अग्निहोत्रस्य वेदेषु पुराणेषु तदनुयायिषु च ग्रन्थेषु यावती प्रशंसा दृश्यते सा न अन्यस्य कस्यापि क्रतोः । अग्निहोत्रमननुष्ठाय नान्यः क्रतुरनुष्ठातुं शक्यते । तत्र विवाहानन्तरं जातपुत्रकृष्णकेशत्वोपलक्षिते वयसि वर्तमानेन त्रैवर्णिकन पुरुषेण सपत्नीकेन अग्न्याधेयं कर्तव्यमित्युक्तं प्राक् । एवमाहितानां गार्हपत्यदक्षिणाग्न्याहवनीयरूपाणां त्रयाणामग्नीनां मध्ये गार्हपत्योऽग्निरविच्छेदेन यावजीवं 

______________________________________________________________________________

क. तत्रामावास्यायां रात्रौ यवाग्वा अमिहोत्रं कर्तव्यम् , नान्यैव्यैः । तण्डलैः शिथिलपक्का यवागूः इति कर्कः । विरलद्रवा सेत्यपरे । __________________________________________________________________________

१. See. आप. श्री. ६. १५. १. का. श्री. ४. १५. १२-२५ । पयो - यवागूरिति धूर्तस्वामी । अत्यन्तद्रवरूपेण पकास्तण्डुला एव यवागूरिति सम्प्रदायः । सान्नाय्ययाजिन एव अयं यवागूनियमः । तस्य आतञ्चनार्थ तदपेक्षणात् । See. also. आश्व. श्री. २. ३, १.

YagnaTathwa Prakashika -023

 

यज्ञतत्त्वप्रकाशे 

अग्निहोत्रनाम्नि मतभेदः 

बचानां तु उपरि वक्ष्यमाणाः-गार्हपत्ये चतस्रः, दक्षिणाग्नौ चतम इत्यष्टौ, एवं प्रातरष्टौ इत्येवं षोडश । पूर्वोक्ताश्चतस्र इति मिलित्वा विंशतेरप्याहुतीनाम् अग्निहोत्रशब्दवाच्यत्वम् । मीमांसकसम्प्रदायोऽपीमं पक्षं परिपुष्णाति । होमकालेऽग्निहोत्रहवणीस्थं पयो न सर्व होतव्यम् । किन्तु भक्षार्थ किञ्चित्तत्रैव अवशेषयेत् । ततः पूर्ववल्लेपं गृहीत्वा वेदिभूमौ निमृजेत् । तत् पितृदेवताकम् । ततोऽग्निहोत्रहवणीं भूमौ निक्षिप्य स्रवं गृहीत्वा तं पयसा प्रपूर्य तेन गार्हपत्ये चतस्र आहुतीः दक्षिणाग्नौ च तावतीराहुतीर्जुहुयात् । तत्र अग्निः गृहपतिः देवता आदितश्चतसृणामाहुतीनाम् । अग्निहपतिः, रयिपतिः, पुष्टिपतिः, कामः, अन्नाद्यो वा विकल्पेन । एवमग्निरदाभ्यः परिषद्यो दाक्षिणाग्निकानां प्रथमातृतीया: चतुर्थीनामाहुतीनां देवता । अग्निरन्नपतिर्द्वितीयस्या इति वेदितव्यम् ॥ 

अग्न्युपस्थानं लेपभक्षश्च 

एवं होमान् हुत्वा, अग्नीन् परिषिच्य, आहवनीयस्य दक्षिणभागेऽवस्थाय, अग्नीनुपतिष्ठेत । ततो वेदिमध्येऽग्निहोत्रहवीं निधाय, लेप होमावशिष्टं भक्षयित्वा, आचम्य, द्विः स्रचं निर्लिय, हस्तं प्रक्षाल्य आचम्य, ततो जलेन तां पूरयित्वा तयैव आचम्य, अग्निहोत्रहवणीं दर्भः संशोध्य प्रक्षालयेत् । ततः पुनस्तां पूरयित्वा तजलं चतसृष्वपि दिक्षु हस्तेन व्युत्सिञ्चेत् तस्यै तस्यै देवतायै (विभज्यो सेचनं व्युत्सेचनम्) । तत्र सर्पाः, सर्पाः पिपीलिकाः, सर्पतरजनाः, सर्पदेवजनाश्च क्रमेण देवताः । पुनश्च तां पूरयित्वा आहवनीयस्य पश्चात् तदेकदेशं बनिनीय, शेष पन्या अखलौ निनयेत् । पुनस्तां जलेन पूरयित्वा सप्तर्षिभ्य उदग्देशे तजलं निनयेत् । ततः प्रत्यावृत्य अग्नीन् प्रज्वलयेत् । ततोऽग्नीन् पूर्ववत परिषिच्य "अनाज्ञातादिमन्त्रत्रयं बपित्वा, अग्निहोत्रस्थाल्यां _______________________________________________________________________________

  • क. निर्लेहनं नाम पात्रगतस्य पयसो जिह्वाग्रेण पात्रस्पृष्टेन चूषणम् । तच्च कलियुगे निषिद्धमिति नेदानीं याशिकैरनुष्ठीयते । 
  • ख, निनयनं क्षारणम् । 
  • ग, अनाशातपदघटितमन्त्रादिकं मन्त्रत्रयं तच्छब्देन व्यवहियते । .

___________________________________________________________________________

१. See. आप. श्री. ६. १३. ९, also. आश्व. श्री. २. २.

YagnaTathwa Prakashika -022

 

अमिहोत्रनिरूपणम् 

अङ्गारान् पृथक्कृत्य तदायतनाद्वहिः वायव्यकोणे तान्निक्षिप्य, तदुपरि अग्निहोत्रार्थपयःपूर्णा कुम्भी निक्षिप्य, तत् पयः श्रपयेत् । यस्मिन् पात्रे दोहनं कृतं तत् पात्रं प्रक्षाल्य, तजलं पात्रस्थदुग्धमिश्रम् अन्यद्वा शुद्धजलं स्रुव आनीय, तत् कुम्भ्यां प्रतिषिच्य त्रिः पर्यग्नि कृत्वाख गवर्मकरणेन प्रागुद्वास्य, विभूमौ तत् प्रतिष्ठाप्य, पूर्व गार्हपत्यादुधृतानङ्गारान् पुनस्तस्मिन्नेव प्रतिक्षिप्य, स्रवमग्निहोत्रहवणीं च गृहीत्वा ते आहवनीये प्रतितप्य, सम्मृश्य, कुम्भीतः पयो गृहीत्वा, अग्निहोत्रहवण्यां क्षिपेत् । एवं चतुर्वारं क्षेप्तव्यम् । तत् हविरुन्नयनमित्युच्यते । उन्नीतं तत् पयः गाईपत्यस्य पश्चिमभागे स्थापयित्वा गार्हपत्ये स्वं हस्तं प्रताप्य, तेन तत् पयः सम्मृश्य, प्रादेशमात्री पलाशसमिधम् एकां, द्वे, तिस्रो वा अग्निहोत्रहवण्या उपरि धारयन् गार्हपत्यस्योपरिभागेन ता आहवनीयसमीपे नयन् , आहवनीयस्य पश्चिमभागे सादयित्वा, अप उपस्पृश्य, ततस्ताः समिधः (एकां, द्वे, तिस्रो वा यथापूर्व गृहीताः) आहवनीय आधाय, अग्निहोत्रवणीस्थं पय आहवनीये जुहुयात् । सा अग्निहोत्रस्य प्रथमा आहुतिः । सा अग्निदेवत्या ॥ 

ततः नगग्रात् पयोलेपं हस्तेन गृहीत्वा भूमौ नि मृज्य, अग्निहोत्रहवणीं भूमौ निक्षिप्य, गार्हपत्यं समीक्ष्य, पुनस्तां गृहीत्वा द्वितीयामाहुति जुहुयात् । सा प्रजापतिदेवताका । एवं प्रातरप्याहुतिद्वयं होतव्यम् । तत्र प्रथमा सूर्यदेवत्या । द्वितीया प्रजापतिदेवताका । इमाश्चतस्त्र आहुतयः अग्निहोत्रे प्रधानभूताः । अमूषां चतसृणामाहुतीनां मध्ये सायंकालीनप्रथमाहुतेरग्निदेवत्यत्वात् तदादायैव सर्वांसामाहुतीनामग्निहोत्रनामत्वं छत्रिन्यायेन । इदं च आपस्तम्बादियाजुर्वैदिकमतेन ॥ 

_________________________________________________________________________________

  • क. वर्तुलपुष्करो दाकारः स्त्रवः । 
  • ख. कुम्भ्या उपर्यङ्गारैः परितो श्रामणं पर्यमिकरणम् । - 
  • ग. अग्निसमीपे उद्वासितां कुम्भी भूमौ निक्षिप्य, तथैव प्राग्देशं -प्रति करेत् । तदाकर्षमार्गः कृष्णवर्णो भवति । स व्यापारी वर्मकरणमित्युच्यते । 
  •  घ. नवागुलिपरिमाणः प्रादेशः । 
  • ङ. यया अग्निहोत्रं हूयते सा जुहाकारा अमिहोत्रहवणी। 
  • च. बहूनां मध्ये एकस्यापि नद्विशिष्टत्वे सति तदादाय सर्वेषु तत्सम्बद्धेषु तच्छब्दप्रयोगः छत्रिन्यायः ।

_________________________________________________________________________________

 (See. पू . मी. १. ४. १९.) १. See. आप, श्री. ६. १३. १-९.

YagnaTathwa Prakashika -021


 यज्ञतत्वप्रकाशे 

अवश्यकर्तव्येषु नित्यकर्मसु परिगणितं स्मृतिकारैः । अत एव तत् यावजीवमनुष्ठेयम् । दर्शपूर्णमासोक्तः कालविकल्पः-जराजीणों वा विरमेत् , विंशतिं वा वर्षाणि अविच्छेदेन अनुष्ठाय ततः परित्यजेत् इत्यादि त्र प्रसरति । तस्य च सायमुपक्रमः (आरम्भः), प्रातरपवर्गः (समाप्तिः) । एवं च सायं प्रातरिति कालद्वयानुष्ठानादेकं कर्म निष्पन्नं भवति । तत्र सायङ्काले यदा सूर्यरश्मयः भूभागं परित्यज्य वृक्षाग्र एव प्रकाशमाना दृश्यन्ते तदा सायहोमाः; प्रातःकाले च प्राच्यां दिशि यदा रश्मय आविर्भूता भवन्ति तदा च प्रातर्होमा अनुष्ठेयाः ॥

अमिहोत्रे उदितानुदितहोमिभेदः 

तत्र उदितहोमिनः केचित् । केचिदनुदितहोमिनः । तेषु बह्वचाः कातीयाः छन्दोगाश्च अनुदितहोमिनः । कठास्तैत्तिरीया मैत्रायणीयाश्च उदितहोमिनः । अग्निप्रणयनं परं सर्वेषामुदयास्तगययोः पूर्वमेव । उदयादस्तमयाच पूर्वमेव गार्हपत्यादग्निमुद्धृत्य कुण्डेषु स्थापयित्वा प्रज्वलयेत् । ततोऽनुदय उदये वा स्वसूत्रानुसारमग्निहोत्रमनुतिष्ठेत् ।।

तदनुष्ठानप्रकारः 

तत्र सायमग्निहोत्रार्थ सङ्कल्प्य उपवेषेण गार्हपत्यादग्निं ज्वलन्तमुद्धृत्य, तं दक्षिणानेरायतने तूष्णीं स्थापयित्वा, पुनरपि गार्हपत्यादग्निमुद्धृत्य तं मन्त्रेण आहवनीये स्थापयेत् । ततो यजमान इध्मकाष्ठानि स्वयमाहृतानि त्रिष्वप्यग्निषु क्रमेण निदध्यात् । ततोऽग्नीन् गन्धपुष्पादिभिरलङ्कृत्य, उदगग्रैः प्रागग्रैश्च दर्भः (कुशैः) परिस्तीर्य, या यजमानस्य आमिहोत्री गौः तां विहारस्य" दक्षिणत आनीय अवस्थाप्य, सूर्यास्तादनन्तरं तां दुग्ध्वा दुग्धं पयः श्रपणार्थायां कुम्म्यां निनीय, आहवनीयगाईपत्यदक्षिणाग्नीन् क्रमेण जलेन परिषिच्य, गार्हपत्यादारभ्य आहवनीयपर्यन्तम् अविच्छिन्नामुदकधारां वेद्यां प्रस्ताव्य, गार्हपत्याग्नेः कांश्चन 

_____________________________________________________________________________

  • क. सूर्योदयादनन्तरं यच्छाखिनोऽमिहोत्र कर्तव्यतया विहितं स उदितहोमी। ततः पूर्व तत् कुर्वाणा अनुदितहोमिनः । 
  • ख. यस्याः पयो दुग्ध्वा अमिहोत्रं क्रियते सा आमिहोत्री गौः। - 
  • ग. विहारो यशानुष्ठानस्थानम् । १. आप. श्री. ६. ३. ८-१४. बौ. श्री. ३. ४. का. श्री. ४.१४. १.

YagnaTathwa Prakashika -020

 



अग्निहोत्रनिरूपणम् 

  • वत्सतयः तिस्रः (अध्वर्यवे दानाय) 
  • यज्ञियवृक्षकाष्ठानि (अग्निसमिन्धनार्थम् ) 
  • अश्वः (अग्न्यायतनेषु पदनिक्षेपणाद्यर्थम् ) 
  • अजः (आयतनसमीपे बन्धनार्थम् ) दक्षिणार्थं च । 
  • सिकताः (अग्निभिः सह ग्रहणार्थम् ) (उपयमनार्थम्स) 
  • रथचक्रम् (आवर्तनार्थम्") 
  • गौः (विदेवनार्थम् )  

आधानार्थदक्षिणाद्रव्याणि- 

  1. (१) द्वादश गावः 
  2. (२) अजः 
  3. (३) पूर्णपात्रम् 
  4. (४) वासः 
  5. (५) मिथुनौ गावौ (स्त्रीपुंसरूपौ) नवीनो रथः 
  6. (७) वहनसमर्थोऽश्वः 
  7. (८) अनड्वान् ॥ 

चत्वार ऋत्विजः--

  1. अध्वर्युः
  2. ब्रह्मा
  3. होता
  4. आग्नीध्रश्च

एवं पवमानेष्टयादीनामप्यत्र अनुष्ठेयत्वात् ऐष्टिकपात्राणामप्यस्त्यावश्यकता । परं दर्शपूर्णमासप्रकरण एव तानि प्रदर्शनमर्हन्तीति तत्रैव प्रदश्यन्ते । अतस्तेषां स्वरूपं तत एव अवगन्तव्यम् ।। 

॥ इत्यग्न्याधानं समाप्तम् ॥ 

अग्निहोत्रम् 

एवं पूर्वोक्तप्रकारेण कृताधानः त्रैवर्णिकः आहिताग्निपदवाच्यो भवति । तस्यैव सपत्नीकस्य श्रौतकर्मस्वधिकारः । तानि च श्रौतकर्माणि वेदेषु परस्सहस्राणि विहितानि । तेषां नामतो निर्देशस्त्वन्ते चिकीर्ण्यते । इदानीं तेषामेव केषांचित् स्वरूपं विलिख्यते । तेषु कर्मसु अग्निहोत्रमेव प्रथमपातीति तस्यैव स्वरूपं वित्रियते । तच्च पुरुषेण त्रैवर्णिकेन 

_______________________________________________________________________________

क. वत्सभावमतिकान्ताः निवृत्तस्तन्यपानाः वत्सतर्यः । ख. पाने अमेरधः पार्श्वेषु च सिकतानां स्थापनमुपयमनम् । ग. पुनः पुनरश्वस्य दक्षिणभागे रथचक्रस्य भ्रामणम् । घ. अष्टाविंशत्युत्तरशतसङ्ख्याकमुष्टिपरिमितं ब्रीहियवादिधान्यं पूर्णपात्रमित्युच्यते । ___ ङ. अकृतविवाहस्य श्रौतेपु कर्मस्वधिकारो नास्ति । मृतपत्नीकस्य स्वमिहोत्रदर्शपूर्णमासयोरधिकारो भवतीति रुद्रदत्तः प्रसाधयति । परमपत्नीकस्य अमिहोत्राद्यनुष्ठानं शिष्टसम्प्रदाये नास्ति ।

YagnaTathwa Prakashika -019

 

यज्ञतत्वप्रकाश 

आधानौपयिकानि द्रव्याणि पात्राणि च 

अरणिद्वयम् (अधरारणिः, उतरारणिश्च) अग्निमथनार्थम् ॥ मन्थिप्रमन्थिनौ । तदर्थमेव । 

अष्टौ पार्थिवास्सम्भाराः-(मृत्सम्बद्धाः) 

  1. (१) सिकताः। 
  2. (५) शर्कराः (क्षुद्रपापाणाः) ।
  3.  (२) उपरमृत् । (६) वल्मीकमृत् । 
  4. (३) मूषिकोत्खाता मृत् ।
  5.  (७) शूकर(वराह) मुखोत्खाता मृत्। .. 
  6. (४) अशोष्यजलाशयमृत् ।
  7.  (८) हिरण्यम् । 

अग्निनिधानात् पूर्वमेते कुण्डेषु क्षेपणीयाः ॥ 

सप्त वृक्षसम्बन्धिनः सम्भाराः---- 

  1. (१) अश्वत्थकाष्ठशकलानि । 
  2. (५) पलाशवृक्षकाठशकलानि । 
  3. (२) औदुम्बरकाष्ठशकलानि । 
  4. (६) विकङ्कतवृक्षशकलानि । 
  5. (३) शमीवृक्षकाष्ठशकलानि । 
  6. (७) पद्मात्राणि च । 
  7. (४) अशनिहतवृक्षकाष्ठशकलानि ।।

 शीतजलमुष्णजलं च (पत्नीयजमानयोः स्नानार्थम् ) 

दुकूलवस्त्राणि (तयोरेव परिधानार्थम् ) 

ग्रामादिचिह्नभूतस्य अश्वत्थवृक्षस्य फलवत्यः तिस्रः समिधः (ब्राझौदनिकामावाधानार्थम् ) ॥ 

  • अश्वत्थवृक्षीयाः समिधो नव  
  • शमीमय्यः समिधो द्वादश 
  • वैककत्यः समिधस्तिस्रः

(गार्हपत्यादिषु विष्वष्यग्निपु  तदा तदा निक्षेपणार्थमेव  विध्यनुरोधेन) 


पैत्तलं ताम्रमयं वा पात्रम् (ब्रह्मौदनपाकार्थम् ) 

शरावाः (तत्तदग्निप्रणयनार्थम् ) 

दीं पैत्तली ताम्रमयी वा (ब्रह्मौदनोद्धरणार्थम् ) 

घृतं गव्यं माहिर्ष वा (होमाभिधारणाद्यर्थम् ) 

_______________________________________________________________________

क. अरण्ये स्थितस्य वृक्षस्य यस्योपरि अशनिः पतति, तेन च यो हतः सोऽशनिहतो वृक्षः॥ 

_____________________________________________________________________

१. See. आप. श्री. ५. १. २. बौधा. २. १२. -

YagnaTathwa Prakashika -018

 

आधाननिरूपणम् 

पवमानेष्टयः 

तदनन्तरं पवमानेष्टयः । तास्तिस्रः । तत्र प्रथमाया अग्निः पवमानो देवता । द्वितीयस्या अग्निः पावकः । तृतीयस्या अग्निः शुचिः । सर्वत्र अष्टाकपालः पुरोडाशो द्रव्यम् । ता एता आधानदिन एवं समानतन्त्रेण अनुष्ठेयाः । अथ वा आधानदिनात् ब्यहे, व्यहे चतुरहे, अर्धमासे, मासे, मासद्वये संवत्सरे वा कर्तुं शक्यन्ते । परममीषां कालानां विकल्पः । यस्मिन् दिन एताः पवमानेष्टयः क्रियेरन् तस्मिन्नेव दिने सायमग्निहोत्रमारभेत । आधानात् कालान्तरे पवमानेष्टीनामुत्कर्षे अग्निहोत्रस्याप्युत्कर्षः । (कालान्तरेऽनुष्ठानम् ) । 

आधानपवमानेष्टीनामङ्गाङ्गिभावः 

पवमानेष्टीनामाधानाङ्गत्वमिति केचन मीमांसकाःख । तन्मते साङ्गस्यैव कर्मणः फलजनकत्वात् पवमानेष्टीनामनुष्ठानानन्तरमेवाग्नीनां सिद्धेः तदनन्तरमेव अग्निहोत्रारम्भः । केचित्तु न आधानपवमानेष्टीनामङ्गाङ्गिभावः । परमाधानवत् पवमानेष्टीनामपि स्वत एवाहवनीयादिसम्पादकत्वम् । अत उभयेषां समुच्चय इति कथयन्ति । अस्मिन्नपि पक्षे पवमानेष्टीविना आहवनीयाद्यनिष्पत्तेः पवमानेष्टीरनुष्ठायैव तदनन्तरमग्निहोत्रारम्भः कर्तव्यः । अस्य सायमेव आरम्भः । सायं. प्रातरनुष्ठीयमानं प्रयोगद्वयं मिलित्वकं कर्म भवति । सायहोमस्य अमिदेवताकत्वादेव अस्य कर्मणोऽग्निहोत्रमिति नाम सम्पन्नमिति मीमांसकाः ॥ 

इदानीम् आधानापेक्षितानां द्रव्याणां पात्राणां च नामानि विलिख्यन्ते 

_________________________________________________________________________

क. अत्र प्रथमाया एवेष्टेरग्निः पवमानो देवता, नेतरयोः । तथापि तिसृणामपि पवमानेष्टित्वेन व्यवहारो याशिकसम्प्रदाये प्रसिद्धः ॥ 

ख. आधानप्रकरणे पाठात् फलाश्रवणाच आधानाङ्गं पवमानेष्टय इति मीमांसावार्तिककारः । 'यदाहवनीये जुह्वति' इति स्वतन्त्रविधिना पवमानेष्टीनामग्न्यङ्गत्वविधानात् आधानवत् तासामन्यग्निसम्पादकत्वमेवेति मीमांसाभाष्यकार: । 

________________________________________________________________________________

See. पू. मी. ३. १. १२. १. See. पू. मी. १. ४. ४.

YagnaTathwa Prakashika -017

 

यज्ञतत्त्वप्रकाश 

कुतश्चिदानीय, गार्हपत्याद्वा गृहीत्वा मथित्वा वा दक्षिणाग्न्यायतने सम्भाराणां पूर्वनिहितानामुपरि निदध्यात् । इदमेव दक्षिणाग्न्याधानम् । अत्राहवनीयस्योपयुद्धरणकाले ब्रह्मा वामदेव्यं साम गायेत् , न वा ॥ 

आहवनीयाधानम् 

ततोऽध्वर्युप्रभृतयः ऋत्विजः कञ्चन अश्वं पूर्व चालयन्तः, आहवनीयदेशं प्रति प्राञ्चो गच्छेयुः । तेषां दक्षिणभागे ब्रह्मा रथचक्र त्रिवारं परिवर्तयेत् । अश्व आहवनीयायतनस्य प्राग्भागे तिष्ठेत् । तेन प्रत्यङ्मुखेन आहवनीयसम्भारान् आक्रमयेत् । ततो ब्रह्मणि साम गायति सति आहवनीयायतनस्य पुरस्तात् प्रत्यङ्मुखस्तिष्ठन्नेव अध्वर्युराहवनीयमादध्यात् । एवं विष्वग्निष्वाहितेषु आज्यहोमेन काठैश्वानीन् वर्धयेयुः ।।

 सभ्यावसथ्ययोरग्न्योराधानम् 

ततो लौकिकाग्निनाव अरणिमथिताग्निना वा सभ्याग्निमावसथ्याग्निं च आदध्यात्तदाधानपक्षे । ततोऽश्वत्थवृक्षीयास्तिस्रस्तिस्रः समिधः शमीवृक्षीयाश्च तिस्रस्ता एकैकस्मिन्नम्मावादध्यात् । ततो मन्त्रवर्जमग्निहोत्रं जुहुयात् । ततः पूर्णाहुनिहोमः । स चाज्यव्येणैव । ततो यजमान आहिताननीनुपतिष्ठेत । ततोऽवयवे यजमानो वरं दद्यात् । ततः प्रायश्चित्तहोमाः । ततो यजमानः सङ्कल्पकरणपूर्वकमाहिताग्निनियमान् धारयेत् । एतावदग्न्याधेयस्य प्रधानकर्म । अतः परमनुष्ठेयान्यानेयेष्टयादीनि अङ्गान्युच्यन्ते । तत्र प्रथममाग्नेयेष्टिराधानानन्तरमेव कर्तव्या । तत्र अग्निर्देवता । अष्टाकपालः पुरोडाशो द्रव्यम् । सा च पौर्णमासगतान्नेयेष्टिवत् कार्या ॥ 

___________________________________________________________________________________


आहवनीयमाधाय तत्समनन्तरमध्वर्युरेव दक्षिणाभिमाध्यादिति कात्यायनः ॥ 

क. आहवनीयायतनस्य पूर्वस्यां दिशि प्रत्यङ्मुखावस्थितोऽश्वः यथा तदाहवनीयस्थानमुल्लङ्घ्य तत्पश्चिमभागे आगच्छेत् तथा यतेत ।। 

ख. अरणिमथितामिनैव सभ्य-आवसथ्यावादध्यादिति कात्यायनः ।

 I See. का. श्री. ४. ९. १८.) यत्र च्छात्रा अध्याप्यन्ते शास्त्रार्थविचारादिकं वा क्रियते सा सभा । तत्र सभ्यामेराधानम् ।।

YagnaTathwa Prakashika -016


आधाननिरूपणम् 


प्रक्षिपेत् । अवशिष्टम त्रेधा विभज्य, आहवनीय-सभ्य वसथ्यायतनेषु प्रक्षिपेत् । केचित् सभ्य आवसथ्यौ न आदधते । अस्मिन् पक्षे तस्यास्य आहवनीय एव निवपनं कार्यम् ॥ 

गार्हपत्याधानम् 

अनेनैव प्रकारेणेतरानपि पार्थिवान् सम्भारान् विभज्य, तेषु तेष्वायतनेषु निदध्यात् । एवं सप्त पार्थिवान् सम्भारान् आयतनेषु न्युप्य, तदुपरि तेनैव प्रकारेण सप्त वानस्पत्यानपि सम्भारान् न्युप्य, तदुपरि हिरण्यं निवपेत् । ततः पूर्व शमितस्याग्नेः भस्म अपोह्य, तदुपरि अरणी निक्षिप्य, तत्समीपे श्वेतमश्वमेकं बद्ध्वा, अरणी मन्थेत् । ततोऽग्नावुत्पन्ने सति यजमानो कवरमध्वर्यवे दद्यात् । ततोऽध्वर्युमंथनजातमग्निं करीपकाष्ठशकलप्रक्षेपादिना वर्धयित्वा वेदेः पश्चिमभागावस्थिते गार्हपत्यार्थे कुण्डे पूर्वनिर्मिते स्थापयेत् । इदमेव वगार्हपयाधानम् । ततो ब्रह्मा सामगानं कुर्यात् , न वा ।। 

दक्षिणाग्न्याधानम् 

ततः सूर्यस्य अर्धोदय समये गार्हपत्यं प्रज्वाल्य, तत्र अश्वत्थकाष्ठान्याधाय, प्रदीप्तानि तान्यंशतो गृहीत्वा, सिकताभिरुपसङ्ग्रह्य, उपर्युद्धृत्य हस्तेन धारयन्नध्वयुस्तिष्ठेत् । तदा आनीधो लौकिकमग्निं यतः 

YagnaTathwa Prakashika -015

 



यज्ञतत्त्वप्रकाशे 

विना नखनिकृन्तनादिकं परं कारयित्वा स्नात्वा क्षौममेव वस्त्रं परिदधीत । ततोऽध्वयुरपराले यजमानस्यौपासनानेर पृथक्कृत्य, तं गार्हपत्याग्नेः पश्चान्निधाय, प्रज्वाल्य कब्रह्मौदनपाकार्थ · तण्डुलान्निरुप्यख त्रैहेयान् , तानप्रक्षाल्यैव चतुश्शराव"परिमितान् जलपूर्णे महति पाने प्रक्षिप्य पचेत् । यथा भक्तेषु तण्डुलांशोऽल्पोऽवशिष्येत तथा पक्तव्यम् । ततः पक्कमन्नमुद्रास्य ततो दया गृहीत्या तस्मिन्नेवाग्नौ जुहुयात् । ततोऽवशिष्टमोदनं चतुर्धा विभज्य पिण्डं कृत्वा चतुर्यः ऋत्विग्भ्योऽध्वादिभ्यो (अध्वर्यु-होतृ-ब्रह्म-आग्नीधेभ्यः) दद्यात् । पात्रे च किञ्चिदवशेषयेत् ।। 

ततोऽध्वर्युः स्वीयं भागं सव्यहस्ते दक्षिणहस्तेन पात्रस्थेऽन्ने आज्यं प्रस्राव्य, तदन्नं तिसभिः फलवतीभिः अश्वत्थसमिद्भिरालोड्य, आलोडनसमये लग्नेनाऽन्नेन साकमेव ताः समिधः तस्मिन्नेवाऽग्नौ निध्यात् । तत ऋत्विजो ब्राह्मणाः स्वस्वान्नं भुञ्जीरन् । इदं च समिदाधानं यस्मिन्नहनि अग्रे आधानं चिकीर्षति तत एकस्मात् वत्सरात् पूर्व, द्वादशाहात् व्यहात् त्र्यहात् पूर्व वा, पूर्वस्मिन्नेव वा दिने कर्तव्यम् । ततो यजमानस्तस्यां रात्रौ व्रतग्रहणं (नियमरवीकारं) कृत्वा वीणावेणुवादनादिभिः जागरणं कुर्यात् । तमग्निमिन्धनादिप्रक्षेपेण सर्वां रात्रिं प्रज्वाल्य रक्षेत् । ततः प्रातरुपःकाल एव तस्मिन्ननावरणी पूर्वसम्भृते प्रतप्य, तमग्निं शमयित्वा, यजमानहस्तेऽरणी प्रयच्छेत् । यजमानस्ते प्रतिगृह्य, अभिमन्त्र्य यावन्मथनारम्भं स्वहस्त एव धारयन्नासीत । ततः अध्वर्युर्हिपत्यायतनस्योद्धननावोक्षणादि कृत्वा, पूर्वस्थापिताः सिकता गृहीत्वा ताः समशो द्वेषा विभज्य, एकम पुन<धा विमज्य, एकं भागं गार्हपत्यायतने, एकं च. दक्षिणाग्न्यातने 
________________________________________________________________________________

क. ब्राह्मणानामृत्विजां भोजनाय यः पन ओदनः स ब्रह्मौदनः ।। 
ख. प्रभूतमानीतेभ्यस्तण्डुलेभ्यः प्रकृतापेक्षितांस्तण्डुलान् पृथक् गृहीत्वा तेषां पात्रान्तरे स्थापनम् ॥ 
ग. शरावः 'तस्तरी' इति हिन्दीभाषायाम् ॥
घ. अमेबहिनिस्सार्य स्थापनमुद्वासनम् । 
________________________________________________________________________________
१-२. ३. ४. See आप. श्री. ५. ५. ८-११. 
See आप. श्री. ५. ८. २-५. , ५, ९.४.५.

YagnaTathwa Prakashika -014


 ३ आधाननिरूपणम् 

तत्र आदो आधानार्थ यजमानेन सङ्कल्प कृत्वा ऋत्विग्वरणे कृते, अध्वर्युः शमीवृक्षस्योपरि यः प्ररूढोऽश्वत्थवृक्षः तस्मादेकां छित्त्वा शाखां, तां द्विधा कृत्वा, अरणिद्वयं ताभ्यामेव सम्पाद्य, अरणी ते युगपदेव आधान देशं प्रत्याहरेत् । पूर्वसम्पादिते वा ते तत्र आहरेत् । ते च चतुरॉलोनते द्वादशाङ्गुलविस्तीर्णे षोडशाङ्गुलायते अनातपशुष्के भवतो बौधायनमतात् । चतुर्विशत्यगुले इति कात्यायनपक्षः । तयोरेका अधरारणिः; अपरोत्तरारणिरित्युच्यते ॥ 

ततः सप्त पार्थिवाः सम्भारा आहवनीयादिषु कुण्डेषु क्षेपणाय आनीय स्थापनीयाः । ते यथा- १. सिकताः २. ऊषाः ३. आखुकरीषम् ४. वल्मीकवपा ५. सूदः ६. वराहविहतम् ७. शर्कराः ८. हिरण्यम् । एवं वार्ताः (वृक्षसम्बन्धिनः) अपि सम्भाराः सप्त । ते च यथा--- १. अश्वत्थकाष्ठम् २. उदुम्बरकाष्ठम् ३. पलाशकाष्ठम् ४. शमीकाष्ठम् ५. विकङ्कतकाष्ठम् ६, अशनिहतवृक्षशकलम् ७. पद्मपत्रम् । एवमेतान् पार्थिवान् वानस्पत्यांश्च सम्भारान् तस्मात् तस्मात् स्थानात् वृक्षाच आहृत्य, एकस्मिन् पात्रे प्रज्ञातान् तान्निध्यात् ॥ तत आहवनीयाद्यग्नीनां गृहनिर्माणम् । तत्र गार्हपत्यस्य वेदेः पश्चिमतः पृथक् गृहम् । आहवनीयाग्नेः पृथक् । तयोरन्यतरस्मिन् दक्षिणाग्नेः स्थानम् । आहवनीयाग्नेः पुरतः सम्यानेः । तस्य पुरतः आवसथ्यस्य ॥

 ततो यजमानो नापितेन क्षुरकर्म कारयित्वा नखकर्तनादि च, स्नात्वा क्षोमे वस्त्रे (दुकूलद्वयं) परिदध्यात् । एवं यजमानपन्यपि क्षौरं 

______________________________________________________________________________

क. ऊपर भूमिगता मृत् ऊपा । मृषिकोत्कीर्णा मृत् आग्बुकरीपम् । वल्मीकस्योपरिभागे स्थिता मृत् वल्मीकवपा । अशोष्यस्य जलशयस्य मृत् सूदः । वराहेण स्वमुखोत्कीर्णा मृत् वराहविहतम् । क्षुद्रपाषाणा: शर्करा: 'शुक्कान्कल्' इति द्राविडभाषायाम् । एवं एते वस्तुविशेषाः सम्भारा इत्युच्यन्ते ॥ 

ख. इदानींतनास्तु याशिकाः स्थानाभावाद्यसौकर्येण एकस्मिन्नेव अपवरके त्रयाणां पञ्चानां वा अनीना कुण्डान् निर्माय तत्र तान् स्थापयन्ति ॥ १. २. See. आप. श्री. ५. १. २. See, बौ. श्री. २. ६.

YagnaTathwa Prakashika -013

 

यज्ञतत्त्वप्रकाशे तद्धोमपूर्वाधानम् । दर्शपूर्णमासेप्ट्यारम्भात् पूर्व कियमाणमिष्टिपूर्वाधानम् । सोमयागारम्भात् पूर्वमनुष्ठीयमानं सोमपूर्वाधानम् । तदित्थम् - 

यियक्षमाणः पुरुषो वसन्तक (कस्मिंश्चित् यथोदितनक्षत्रादियुते) काले यथावदग्नीनाधाय साङ्गस्य आधानस्य परिसमाप्तिदिन एव सायमग्निहोत्रमारमेत । तदिनप्रभृति प्रतिदिनं सायं प्रातश्च अग्निहोत्रं जुह्वदासीत । तदिदं होमपूर्वाधानम् ॥ 

आधानानुष्ठानानन्तरं श्रौतं किमपि कर्म अकृत्वा शुक्रास्तादिदोषादृषिते पर्वणि (पौर्णमास्यां) पूर्णमासेष्टिं, तदनन्तरदशैं दर्शेष्टिं चानुतिष्ठति यदि तदा तत् इष्टिपूर्वाधानमित्युच्यते । अस्मिन् पक्षे कालं सामग्रीसम्पदं च अवाप्य सोमादीननुतिष्ठेद्यागान् । अथ वा वसन्ते कस्मिंश्चिदिने शुभे आधानं कृत्वा तत्समनन्तरदिन एव सोमयागाय यदि सङ्कल्पयेत् तत् सोमपूर्वाधानम् । पक्षेऽस्मिन् सोमयागं परिसमाप्य तस्मिन्नेव दिने सायमग्निहोत्रमारभेत । अनन्तरपूर्णिमायां पूर्णमासेष्टिमित्यादि । त्रयाणाममीपां पक्षाणां स्वेच्छया विकल्पः परिग्रहणे । सङ्कल्पे परमेषां वैलक्षण्यम् , न त्वनुष्ठाने ॥ 

तत्र यदहरमीनाधास्यमानः स्यात् तत्पूर्वदिने कृतपापानुगुणप्रायश्चित्तो निष्कल्मषीभूय, आभ्युदयिकश्राद्धादिकमनुष्ठाय सपत्नीको यजमानो गृहीतनियमो वर्तेत । श्वोभूते कृतनित्यक्रियो भार्यया सह आधानार्थं सङ्कल्पं कुर्यात् । आधानस्य फलमग्नीनां गार्हपत्य-आहवनीयदक्षिणानीनां त्रयाणां, सभ्य-आवसथ्यसहितानां पञ्चानां वा सिद्धिरेव । अतः आधानं न कस्यचित् कर्मणोऽङ्गभूतम् , किं तु स्वतन्त्रमेव कर्म ।।

_________________________________________________________________________________

क. आधानस्य ब्राह्मणकर्तृकस्य वसन्तर्तुरेव कालो विहितः श्रुतौ" वसन्ते ब्राह्मणोऽग्नीनादधीत " इति ।। 
ख. होमः अमिहोत्र होमः । ततः पूर्वमेव क्रियमाणमाधानं होमपूर्वाधानम् । अतश्च आधानानन्तरमेव अमिहोत्रारम्भे होमपूर्वाधानम् । आधानानन्तरमेव दर्शपूर्णमासेष्टथारम्भे इष्टिपूर्वाधानम् । आधानानन्तरमेव सोमयागसङ्कल्पे सोमपूर्वाधानमिति सिद्धम् ॥ 
ग. मङ्गलकार्येषु क्रियमाणं श्राद्धम् आभ्युदायिकमित्युच्यते । अभ्युदयसम्बन्धि आभ्युदयिकमिति ॥

YagnaTathwa Prakashika -012

 

॥ श्रीः॥ 
॥ श्रीगणेशाय नमः ।। 
॥ यज्ञतत्त्वप्रकाशः ॥ 
महामहोपाध्यायश्रीचिन्नस्वामिशास्त्रिविरचितः अग्न्याधेयादिचातुर्मास्यान्तहविर्यज्ञनिरूपणरूपः ॥

 प्रथमो भागः ॥

चञ्चचन्द्रकलानिरन्तरवहत्पीयूषधारोक्षितो गङ्गोत्तुङ्गतरङ्गभङ्गनिवहक्लियत्कपर्दोज्ज्वलः । कल्याणैकनिधिर्जगत्यसुमतां तापत्रयोन्मूलनं कुर्वन्छ्रेय इहादधातु जगतां क्षेमकरश्शङ्करः ॥ १ ॥ 
जगस्थित्युद्भवलया यत्प्रसादादनेकधा । तं नौमि परमात्मनं यज्ञेशं यज्ञरूपिणम् ॥ २ ॥ 
यज्ञानां प्रक्रिया ह्येषा हसिमानमुपागता । उद्धर्तुमेनां यत्नोऽयं प्रीणन्तु सुधियोऽमुना ॥ ३ ॥ 

अग्न्याधेयम्

 एवं तावत् सर्वेषां श्रौतकर्मणाम् उत्पत्तिविकासादिनिरूपणद्वारा सामान्यस्वरूपं निरूपितं किञ्चित् सामान्यकाण्डे । इदमिदानी विशेषतस्तेषामेव विविच्य अवगमनाय प्रयत्यते । तत्र तावद्वेदोदितानि सर्वाण्यपि श्रौतकर्माणि कृतदारेण आहितामिना अनुष्ठेयानीति शास्त्रसिद्धान्तः । आहिताग्निस्तु विधिवत् श्रुतिविहितमाधान योऽनुतिष्ठति स एव भवति । अतस्तदेव पूर्व निरूप्यते ॥ 

आधानं त्रिविधम्- होमपूर्वाधानम् , इष्टिपूर्वाधानम् , सोमपूर्वाधानं चेति । तत्र, अग्निहोत्रारम्भं करिष्यन् ततः पूर्वं यदाधानं करोति .

YagnaTathwa Prakashika -010


 xiii विषयः दवसुवां हवींषि सौमिकव्यापारा: सौत्रामणीयागः राजसूयः अश्वमेधः अश्वमेधस्य सर्वयज्ञश्रेष्ठता पुरुषमेधः सर्वमेधः तृतीयभागे पृष्ठम् । विषयः पृष्ठम् १०७ | सवनिरूपणम १२२ द्वादशाहक्रतुः १२५ १०८ द्वादशाहे संस्थास्तोमपृष्ठसाम निरूपणी पट्टिका ग्रहाग्रता गवामयनम् १२८ १२० षडहस्वरूपनिरूपणम् १२९ १२१ महाव्रतनिरूपणम १३१ १२२ | APPENDIX ११५ वेदीनां चित्राणि 1. दार्शपौर्णमासिकी वेदिः 15. पशुयागीया वेदिः 2. चातुर्मास्यवेदिः 6. सोमयागार्थी वेदिः 3. एकादशकपालोपधानप्रकारः 7. सुपणेचिते: २,४. प्रस्तारौ अष्टाकपालोपधानप्रकार: 8. सुपर्णचितेः १,३,५. प्रस्ताराः 4. प्रकारान्तरं तयोरेव .

YagnaTathwa Prakashika -009

स विषयः पृष्ठम् । विषयः वरुणप्रधासपर्व ४७ व्यम्बकहवींषि साकमेधपर्व ४९ शुनासीरीयपर्व महाहवींषि साकमेधान्तर्गतानि) , चातुर्मास्यानुष्ठाने विशेषाः महापितृयज्ञः ५० | आग्रयणेष्टिः द्वितीयभागे सोमयागनिरूपणम् ५५ आर्भवपवमानाय सोमयागेऽधिकारी ५६ प्रसर्पणं चमसप्रचारश्च नाम्नि प्रवृत्तिनिमित्तम् ५७ सौम्यचरुः सोमयागे प्रथमदिनकृत्यम् हारियोजनग्रहप्रचारः द्वितीयदिनकृत्यम् ६१ अवभृथेष्टिः सोमक्रयः उक्थ्यसंस्था द्वितीया प्रवर्ग्य: | घोडशिसंस्था तृतीया प्रवर्दीसम्भाराः अतिरात्रसंस्था चतुर्थी प्रवयानुष्ठानम् अत्यमिष्टोमसंस्था पञ्चमी उपसत् वाजपेय संस्था षष्ठी तृतीयदिनकृत्यम् अप्तोर्यामसंस्था सप्तमी चतुर्थदिनकृत्यम् ६६ स्तोत्राणां शस्त्राणां च पञ्चमदिन(सुत्यादिन)कृत्यम् । स्तोमसङ्ख्या महामिषवः ६८ स्तोमविवरणम् ; विष्टुतिप्रकारश्च ९१ ऐन्द्रवायवादिग्रहाः चयनम् प्रसपणम् | उखासम्भरणम् धाराग्रहप्रचारः वायव्यपशुयागः शुक्रामन्थिग्रहप्रचारः उख्यामिनिष्पादनधारणादि १०० चमसदेवताः गार्हपत्यचितिमानादि १०१ चमसभक्षणम गार्हपत्यचितरुपरि शस्त्रपाठप्रतिगरादि उख्याग्निस्थापनम् नाराशंसहोमः | चयनस्थलकर्षणादि उक्थ्यग्रहप्रचारः । प्रथमचितेरुपधानम् माध्यन्दिनं सवनम् शतरुद्रीयहोमः दिक्षिणादानम् चितेरुपर्यग्निस्थापनादि दिक्षिणाविभागः वसोर्धाराहोमः, मरुत्वतीयग्रहप्रचारः ___ यजमानाभिषेकश्च तृतीयसवनम् ७४धिष्ण्योपधानम् ०७ ०००

YagnaTathwa Prakashika -008


 

  1. ॥ विषयसूची ॥ 
  2. पृष्ठम् प्रथमभागे विषयः पृष्ठम् | 
  3. विषयः मङ्गलाचरणम् १ 
  4. आज्यग्रहणम् अग्न्याधेयम् वेदिस्तरणं पात्रसादनं च गार्हपत्याधानम् ५ 
  5. सामिधेनीकर्म दक्षिणाग्न्याधानम् | प्रयाजा: आहवनीयाधानम् ६ 
  6. प्रधानयागानुष्ठानम् सभ्यावसथ्ययोरन्योराधानम् , स्विष्टकृद्यागः पवमानेष्टयः | इडाभक्षणादि आधानपवमानेष्टीनामङ्गाङ्गिभावः ऋत्विग्दक्षिणा,अनूयाजाश्च आधानौपयिकानि द्रव्याणि | पत्नीसंयाजादिकम् पात्राणि च | याजमानम् अग्निहोत्रम् ९ दर्शयागे विशेषाः अग्निहोत्रे उदितानुदितहोमिभेदः १० / वत्सापाकरणम् तदनुष्ठानप्रकारः शुक्लप्रतिपदिनकृत्यम् अग्निहोत्रनाम्नि मतभेदः १२ दार्शपौर्णमासिकानि अग्न्युपस्थानं लेपभक्षश्च , द्रव्याणि पात्राणि च अग्निहोने कर्ता १३ | पिण्डपितृयज्ञः अमिहोत्रप्रशंसा पिण्डपितृयज्ञोपयिकानि अग्निसमारोपणादि १४ | द्रव्याणि पात्राणि च विषयविवेचनम् १५ निरूढपशुबन्धः दर्शपूर्णमासौ १६ अमिप्रणयनम् यागानुष्ठानकालः १८ पात्रसादनादि पौर्णमासीदिनकृत्यम् पशुसंज्ञपनवपाहोमादि कृष्णप्रतिपदिनकृत्यम् | हृदयाघङ्गयागः हविर्निवापः अनूयाजाद्यनुष्ठानम् अवहननपेषणे पशुयागोपयुक्तानि हविःश्नपणम् | द्रव्याणि पात्राणि च वेदिनिर्माणम् , चातुर्मास्यानि आज्यग्रहणादिकं च २२ वैश्वदेवपर्व

YagnaTathwa Prakashika -007

 


एतादृशे समये कलिकाताविश्वविद्यालय:-~य: भारतीयप्राचीनसभ्यतापरिरक्षणे प्राथम्यमावहति-विषयमिमम् अध्येयकोटी निवेशयतीति स सर्वथा श्लाघनीय इत्यत्र नास्ति विशयलेशोऽपि । विषयस्वरूपमात्रनिरूपणप्रवणेन मया तत्तच्छ्रौतसूत्रस्वरूपनिर्देशादिकं न कृतम् । साधारण्येन परं तत्तत्स्थलनिर्देशः कृतः अधष्टिप्पण्यां तत्र तत्र । अध्येतृणाम् उपकारमेव विशेषतो मनसिकृत्य तदनुसारेणैव अन्थोऽयमारचित इति तु विज्ञा विजानीयुरेवेति नात्र अधिकं वक्तुमुत्सहे । अतो विद्वद्वराः विशेषेण च विद्यार्थिनः ग्रन्थमिमं यथावदुपयुज्य प्रयत्नं मदीयं सफलयेयुरिति सुदृढं विश्वसिमि ॥ स्थलेषु बहुषु समुत्पन्नान संशयान दूरीकृत्य पदार्थयाथायं तदा तदा विवेचितवतां श्रोतविद्यायां भारतदेशे इदानीं प्रथमगणनीयानां त्रिीतभास्करादिविविधोपाधिविभूषितानां नलिच्चेरि - श्रीरामनाथश्रोतिमहोदयानां शतश उपकारान् प्रशंसामि कृतज्ञतापूर्वकम् ॥ अमूल्यमतिगभीरमात्मीयमाशयमेतद्ग्रन्थविषयकमाविष्कृत्य प्रथमिमं पाठकानां पुरः कृतवद्धयः कलिकाताविश्वविद्यालये संस्कृतविभागीयप्रधानाध्यापकपदं (Asutosh Professor) अलङ्कुर्वद्धः विद्वत्कुलमूर्धाभिषिक्तेभ्यः श्रीसातकरीमुख्योपाध्यायमहोदयेभ्यो बहुशो धन्यवादान हार्दिकान् वितरामि ।। इति कलिकाता विदुषां वशंवदः १५-७-२५१) अ. चिन्नस्वामिशास्त्री.

YagnaTathwa Prakashika -006



एतादृशे समये कलिकाताविश्वविद्यालय:-~य: भारतीयप्राचीनसभ्यतापरिरक्षणे प्राथम्यमावहति-विषयमिमम् अध्येयकोटी निवेशयतीति स सर्वथा श्लाघनीय इत्यत्र नास्ति विशयलेशोऽपि । विषयस्वरूपमात्रनिरूपणप्रवणेन मया तत्तच्छ्रौतसूत्रस्वरूपनिर्देशादिकं न कृतम् । साधारण्येन परं तत्तत्स्थलनिर्देशः कृतः अधष्टिप्पण्यां तत्र तत्र । अध्येतृणाम् उपकारमेव विशेषतो मनसिकृत्य तदनुसारेणैव अन्थोऽयमारचित इति तु विज्ञा विजानीयुरेवेति नात्र अधिकं वक्तुमुत्सहे । अतो विद्वद्वराः विशेषेण च विद्यार्थिनः ग्रन्थमिमं यथावदुपयुज्य प्रयत्नं मदीयं सफलयेयुरिति सुदृढं विश्वसिमि ॥ स्थलेषु बहुषु समुत्पन्नान संशयान दूरीकृत्य पदार्थयाथायं तदा तदा विवेचितवतां श्रोतविद्यायां भारतदेशे इदानीं प्रथमगणनीयानां त्रिीतभास्करादिविविधोपाधिविभूषितानां नलिच्चेरि - श्रीरामनाथश्रोतिमहोदयानां शतश उपकारान् प्रशंसामि कृतज्ञतापूर्वकम् ॥ अमूल्यमतिगभीरमात्मीयमाशयमेतद्ग्रन्थविषयकमाविष्कृत्य प्रथमिमं पाठकानां पुरः कृतवद्धयः कलिकाताविश्वविद्यालये संस्कृतविभागीयप्रधानाध्यापकपदं (Asutosh Professor) अलङ्कुर्वद्धः विद्वत्कुलमूर्धाभिषिक्तेभ्यः श्रीसातकरीमुख्योपाध्यायमहोदयेभ्यो बहुशो धन्यवादान हार्दिकान् वितरामि ।। इति कलिकाता विदुषां वशंवदः १५-७-२५१) अ. चिन्नस्वामिशास्त्री.

 

YagnaTathwa Prakashika -005






॥ श्रीः ॥ प्राकथनम् भगवतः परमेशितुः भगवत्या देव्याः सर्वमङ्गलायाश्च असीमया कृपया यज्ञतत्त्वप्रकाशाख्योऽयं अन्थः पूर्णतामगात् । कलिकाताविश्वविद्यालयेऽत्र संस्कृतविभागे तत्तद्विभागानुसारेण अध्येयत्वेन निर्णीतानां कपाश्चन याज्ञिकपदार्थानां स्वरूपविवेचने इदन्तया अन्थस्य कस्यचिदनिर्देशात् तन्मूलकम् अध्येतृभिः अनुभूयमानं क्लेशविशेष परिहतुकामस्य मम ग्रन्थस्याम्य विलेखने प्रवृत्तिरुदभूत् । तत्र यज्ञस्वरूपविधिविवरणादौ यजुर्वेद एव प्राधान्यमावहतीति सुविदिनमेव । विषयेऽत्र सतीष्वपि यजुर्वेदान्तर्गतास्वेव बह्वीषु शान्यासु तैत्तिरीयशाखैव तत्स्वरूपनिरूपणे सामय बिभर्ति । इयमेव तैत्तिरीयशाखा तद्वेदीयशाखान्तरापेक्षया प्राचीनतमा च । एतदनन्तरमेव तद्वेदीया अन्याः शाग्याः प्रवृत्ताः । सत्सवसरे साध्विदं विस्तरशो निरूप्येत । अतः अत्र निरूपितानां सर्वेषां ऋतूनां यथावत् स्वरूपविवेचनाय प्राधान्येन सैव शाखा आश्रयणीया अभवत् । तदनुसारिणी आपस्तम्बीयं श्रौतसूत्रं वौधायनीयं च विशेषतया आश्रयणीये अभूताम् । अतः प्राधान्येन ग्रन्थाविमाववलम्ब्य अन्यांश्च तत्तद्वेदीयान् श्रौतसूत्रग्रन्थान् , पद्धतीश्च तास्ता यथायोगं परिशील्य, ग्रन्थोऽयं लिखितः। प्राचीनकालपु वेदाः तदनुसर्पिणः श्रौतसूत्रग्रन्थाश्च भारतीयानामस्माकं निधयः श्रेयोमार्गप्रदर्शकाश्च आसन् । तदुदितान्येव च कर्माणि उच्चावचानि यथावदनुष्ठाय आस्माकीनाः पूर्वतनाः पुरुषाः पारलौकिकीमैहलौकिकी च मुखसमृद्धिं लभमाना आसन्निति तैस्तरैतिहासिकैः ग्रन्थरत्नैः अवगच्छामो वयम् ।। . - -- - कालेन च वैदिके मार्गेऽस्मिन् दुरवबोधतया बहुच्छ्रसाध्यतया च शनैः शनैः शिथिलतामुपगते विद्यान्तरेषु गाढतरमवगाहमाना अपि . विषयमिममुपेक्षन्ते स्म ज्ञातारोऽपि । तेनैव च हेतुना उपेशाविषयतां प्राप्तोऽयं श्रौतो विषय इदानी क्रमशः कियती दुरवस्थामनुभवतीति न वर्णनीयं विवेचनशीलानाम् । अतः आस्माकीनेयं चिरन्तनी रत्नप्रभा यथा न .आत्यन्तिकं लोपमियात् तथा अस्माभिर्यतितव्यम् । अत एव च मयाप्यत्र किञ्चिदिव यतितम् ॥




 

YagnaTathwa Prakashika -004


 To Dr. SARVEPALLI RADHAKRISHNAN wiri AFFECTIONATE REGARDS विद्वद्धृन्दसमहणीयनिजवाङमाधुर्यसन्तर्पित क्षोणीमण्डलमण्डिताय विदुषामयं पदं बिभ्रते । नीत्या दैत्यगुरुं धिया च धिषण न्यक्कुर्वते योगिने राधाकृष्णमहार्हते कृतिमिमां श्रद्धागरिम्णाऽपये ॥ अ. चिन्नस्वामिशास्त्री.

Yagna Tathwa Prakashika - 003

 




॥ श्रीः ॥ ॥ ओं नमश्शिवाभ्याम् ॥ ॥ओं नमस्सरस्वत्यै ।। यज्ञतत्त्वप्रकाशः महामहोपाध्याय, शास्त्ररत्नाकर, पण्डितसार्वभौम, मीमांसाकेसरि, __ श्रीचिन्नस्वामिशास्त्रिमहोदयैः वेदविशारदैः श्रीकलिकाताविश्वविद्यालये संस्कृताध्यापकपदमधितिष्ठद्भिः विरचितः वेदाचार्यः, साहित्याचार्यः, साहित्यशिरोमणिः, वेदतीर्थः, वेदान्तशास्त्री, मीमांसाशास्त्री, M.A., इत्याशुपाधिधारिणा काशीहिन्दूविश्वविद्यालयीयसंस्कृतमहाविद्यालये वेदसाहित्यमीमांसाध्यापकेन पं. रामनाथदीक्षितेन सम्पादितः अस्य सर्वेऽधिकाराः ग्रन्थका स्वहस्ते रक्षिताः मद्रास् ला जर्नल् प्रेस् २०१• वैक्रमाब्दः, शकान्दः १८७५ ई. १९५३

Yagna Tatwa Prakashika Page 103 Somayaga Nirupanam

  ९२ यज्ञतत्त्वप्रकाशे  [१] इयं च त्रिवृदादिसङ्ख्या वारत्रयमावृत्ताभिस्तिसृभिऋग्भिस्सम्पा-दनीया । तद्यथा— माध्यन्दिनपवमानाख्यमेकं स्तोत्रम् ...