यज्ञतत्वप्रकाश
आधानौपयिकानि द्रव्याणि पात्राणि च
अरणिद्वयम् (अधरारणिः, उतरारणिश्च) अग्निमथनार्थम् ॥ मन्थिप्रमन्थिनौ । तदर्थमेव ।
अष्टौ पार्थिवास्सम्भाराः-(मृत्सम्बद्धाः)
- (१) सिकताः।
- (५) शर्कराः (क्षुद्रपापाणाः) ।
- (२) उपरमृत् । (६) वल्मीकमृत् ।
- (३) मूषिकोत्खाता मृत् ।
- (७) शूकर(वराह) मुखोत्खाता मृत्। ..
- (४) अशोष्यजलाशयमृत् ।
- (८) हिरण्यम् ।
सप्त वृक्षसम्बन्धिनः सम्भाराः----
- (१) अश्वत्थकाष्ठशकलानि ।
- (५) पलाशवृक्षकाठशकलानि ।
- (२) औदुम्बरकाष्ठशकलानि ।
- (६) विकङ्कतवृक्षशकलानि ।
- (३) शमीवृक्षकाष्ठशकलानि ।
- (७) पद्मात्राणि च ।
- (४) अशनिहतवृक्षकाष्ठशकलानि ।।
शीतजलमुष्णजलं च (पत्नीयजमानयोः स्नानार्थम् )
दुकूलवस्त्राणि (तयोरेव परिधानार्थम् )
ग्रामादिचिह्नभूतस्य अश्वत्थवृक्षस्य फलवत्यः तिस्रः समिधः (ब्राझौदनिकामावाधानार्थम् ) ॥
- अश्वत्थवृक्षीयाः समिधो नव
- शमीमय्यः समिधो द्वादश
- वैककत्यः समिधस्तिस्रः
(गार्हपत्यादिषु विष्वष्यग्निपु तदा तदा निक्षेपणार्थमेव विध्यनुरोधेन)
पैत्तलं ताम्रमयं वा पात्रम् (ब्रह्मौदनपाकार्थम् )
शरावाः (तत्तदग्निप्रणयनार्थम् )
दीं पैत्तली ताम्रमयी वा (ब्रह्मौदनोद्धरणार्थम् )
घृतं गव्यं माहिर्ष वा (होमाभिधारणाद्यर्थम् )
_______________________________________________________________________
क. अरण्ये स्थितस्य वृक्षस्य यस्योपरि अशनिः पतति, तेन च यो हतः सोऽशनिहतो वृक्षः॥
_____________________________________________________________________
१. See. आप. श्री. ५. १. २. बौधा. २. १२. -
No comments:
Post a Comment