Tuesday, December 7, 2021

YagnaTathwa Prakashika -014


 ३ आधाननिरूपणम् 

तत्र आदो आधानार्थ यजमानेन सङ्कल्प कृत्वा ऋत्विग्वरणे कृते, अध्वर्युः शमीवृक्षस्योपरि यः प्ररूढोऽश्वत्थवृक्षः तस्मादेकां छित्त्वा शाखां, तां द्विधा कृत्वा, अरणिद्वयं ताभ्यामेव सम्पाद्य, अरणी ते युगपदेव आधान देशं प्रत्याहरेत् । पूर्वसम्पादिते वा ते तत्र आहरेत् । ते च चतुरॉलोनते द्वादशाङ्गुलविस्तीर्णे षोडशाङ्गुलायते अनातपशुष्के भवतो बौधायनमतात् । चतुर्विशत्यगुले इति कात्यायनपक्षः । तयोरेका अधरारणिः; अपरोत्तरारणिरित्युच्यते ॥ 

ततः सप्त पार्थिवाः सम्भारा आहवनीयादिषु कुण्डेषु क्षेपणाय आनीय स्थापनीयाः । ते यथा- १. सिकताः २. ऊषाः ३. आखुकरीषम् ४. वल्मीकवपा ५. सूदः ६. वराहविहतम् ७. शर्कराः ८. हिरण्यम् । एवं वार्ताः (वृक्षसम्बन्धिनः) अपि सम्भाराः सप्त । ते च यथा--- १. अश्वत्थकाष्ठम् २. उदुम्बरकाष्ठम् ३. पलाशकाष्ठम् ४. शमीकाष्ठम् ५. विकङ्कतकाष्ठम् ६, अशनिहतवृक्षशकलम् ७. पद्मपत्रम् । एवमेतान् पार्थिवान् वानस्पत्यांश्च सम्भारान् तस्मात् तस्मात् स्थानात् वृक्षाच आहृत्य, एकस्मिन् पात्रे प्रज्ञातान् तान्निध्यात् ॥ तत आहवनीयाद्यग्नीनां गृहनिर्माणम् । तत्र गार्हपत्यस्य वेदेः पश्चिमतः पृथक् गृहम् । आहवनीयाग्नेः पृथक् । तयोरन्यतरस्मिन् दक्षिणाग्नेः स्थानम् । आहवनीयाग्नेः पुरतः सम्यानेः । तस्य पुरतः आवसथ्यस्य ॥

 ततो यजमानो नापितेन क्षुरकर्म कारयित्वा नखकर्तनादि च, स्नात्वा क्षोमे वस्त्रे (दुकूलद्वयं) परिदध्यात् । एवं यजमानपन्यपि क्षौरं 

______________________________________________________________________________

क. ऊपर भूमिगता मृत् ऊपा । मृषिकोत्कीर्णा मृत् आग्बुकरीपम् । वल्मीकस्योपरिभागे स्थिता मृत् वल्मीकवपा । अशोष्यस्य जलशयस्य मृत् सूदः । वराहेण स्वमुखोत्कीर्णा मृत् वराहविहतम् । क्षुद्रपाषाणा: शर्करा: 'शुक्कान्कल्' इति द्राविडभाषायाम् । एवं एते वस्तुविशेषाः सम्भारा इत्युच्यन्ते ॥ 

ख. इदानींतनास्तु याशिकाः स्थानाभावाद्यसौकर्येण एकस्मिन्नेव अपवरके त्रयाणां पञ्चानां वा अनीना कुण्डान् निर्माय तत्र तान् स्थापयन्ति ॥ १. २. See. आप. श्री. ५. १. २. See, बौ. श्री. २. ६.

No comments:

Post a Comment

Yagna Tatwa Prakashika Page 103 Somayaga Nirupanam

  ९२ यज्ञतत्त्वप्रकाशे  [१] इयं च त्रिवृदादिसङ्ख्या वारत्रयमावृत्ताभिस्तिसृभिऋग्भिस्सम्पा-दनीया । तद्यथा— माध्यन्दिनपवमानाख्यमेकं स्तोत्रम् ...