॥ श्रीः ॥
प्राकथनम् भगवतः परमेशितुः भगवत्या देव्याः सर्वमङ्गलायाश्च असीमया कृपया यज्ञतत्त्वप्रकाशाख्योऽयं अन्थः पूर्णतामगात् । कलिकाताविश्वविद्यालयेऽत्र संस्कृतविभागे तत्तद्विभागानुसारेण अध्येयत्वेन निर्णीतानां कपाश्चन याज्ञिकपदार्थानां स्वरूपविवेचने इदन्तया अन्थस्य कस्यचिदनिर्देशात् तन्मूलकम् अध्येतृभिः अनुभूयमानं क्लेशविशेष परिहतुकामस्य मम ग्रन्थस्याम्य विलेखने प्रवृत्तिरुदभूत् । तत्र यज्ञस्वरूपविधिविवरणादौ यजुर्वेद एव प्राधान्यमावहतीति सुविदिनमेव । विषयेऽत्र सतीष्वपि यजुर्वेदान्तर्गतास्वेव बह्वीषु शान्यासु तैत्तिरीयशाखैव तत्स्वरूपनिरूपणे सामय बिभर्ति । इयमेव तैत्तिरीयशाखा तद्वेदीयशाखान्तरापेक्षया प्राचीनतमा च । एतदनन्तरमेव तद्वेदीया अन्याः शाग्याः प्रवृत्ताः । सत्सवसरे साध्विदं विस्तरशो निरूप्येत । अतः अत्र निरूपितानां सर्वेषां ऋतूनां यथावत् स्वरूपविवेचनाय प्राधान्येन सैव शाखा आश्रयणीया अभवत् । तदनुसारिणी आपस्तम्बीयं श्रौतसूत्रं वौधायनीयं च विशेषतया आश्रयणीये अभूताम् । अतः प्राधान्येन ग्रन्थाविमाववलम्ब्य अन्यांश्च तत्तद्वेदीयान् श्रौतसूत्रग्रन्थान् , पद्धतीश्च तास्ता यथायोगं परिशील्य, ग्रन्थोऽयं लिखितः। प्राचीनकालपु वेदाः तदनुसर्पिणः श्रौतसूत्रग्रन्थाश्च भारतीयानामस्माकं निधयः श्रेयोमार्गप्रदर्शकाश्च आसन् । तदुदितान्येव च कर्माणि उच्चावचानि यथावदनुष्ठाय आस्माकीनाः पूर्वतनाः पुरुषाः पारलौकिकीमैहलौकिकी च मुखसमृद्धिं लभमाना आसन्निति तैस्तरैतिहासिकैः ग्रन्थरत्नैः अवगच्छामो वयम् ।।
.
-
--
-
कालेन च वैदिके मार्गेऽस्मिन् दुरवबोधतया बहुच्छ्रसाध्यतया च शनैः शनैः शिथिलतामुपगते विद्यान्तरेषु गाढतरमवगाहमाना अपि . विषयमिममुपेक्षन्ते स्म ज्ञातारोऽपि । तेनैव च हेतुना उपेशाविषयतां प्राप्तोऽयं श्रौतो विषय इदानी क्रमशः कियती दुरवस्थामनुभवतीति न वर्णनीयं विवेचनशीलानाम् । अतः आस्माकीनेयं चिरन्तनी रत्नप्रभा यथा न .आत्यन्तिकं लोपमियात् तथा अस्माभिर्यतितव्यम् । अत एव च मयाप्यत्र किञ्चिदिव यतितम् ॥
Yagna Tathwa Prakasha: महामहोपाध्यायश्रीचिन्नस्वामिशास्त्रिविरचितः अग्न्याधेयादिचातुर्मास्यान्तहविर्यज्ञनिरूपणरूपः
Subscribe to:
Post Comments (Atom)
Yagna Tatwa Prakashika Page 103 Somayaga Nirupanam
९२ यज्ञतत्त्वप्रकाशे [१] इयं च त्रिवृदादिसङ्ख्या वारत्रयमावृत्ताभिस्तिसृभिऋग्भिस्सम्पा-दनीया । तद्यथा— माध्यन्दिनपवमानाख्यमेकं स्तोत्रम् ...
-
॥ विषयसूची ॥ पृष्ठम् प्रथमभागे विषयः पृष्ठम् | विषयः मङ्गलाचरणम् १ आज्यग्रहणम् अग्न्याधेयम् वेदिस्तरणं पात्रसादनं च गार्हपत्याधानम् ५ ...
-
९२ यज्ञतत्त्वप्रकाशे [१] इयं च त्रिवृदादिसङ्ख्या वारत्रयमावृत्ताभिस्तिसृभिऋग्भिस्सम्पा-दनीया । तद्यथा— माध्यन्दिनपवमानाख्यमेकं स्तोत्रम् ...
-
यज्ञतत्वप्रकाश आधानौपयिकानि द्रव्याणि पात्राणि च अरणिद्वयम् (अधरारणिः, उतरारणिश्च) अग्निमथनार्थम् ॥ मन्थिप्रमन्थिनौ । तदर्थमेव । अष्टौ ...
No comments:
Post a Comment