Tuesday, December 7, 2021

YagnaTathwa Prakashika -013

 

यज्ञतत्त्वप्रकाशे तद्धोमपूर्वाधानम् । दर्शपूर्णमासेप्ट्यारम्भात् पूर्व कियमाणमिष्टिपूर्वाधानम् । सोमयागारम्भात् पूर्वमनुष्ठीयमानं सोमपूर्वाधानम् । तदित्थम् - 

यियक्षमाणः पुरुषो वसन्तक (कस्मिंश्चित् यथोदितनक्षत्रादियुते) काले यथावदग्नीनाधाय साङ्गस्य आधानस्य परिसमाप्तिदिन एव सायमग्निहोत्रमारमेत । तदिनप्रभृति प्रतिदिनं सायं प्रातश्च अग्निहोत्रं जुह्वदासीत । तदिदं होमपूर्वाधानम् ॥ 

आधानानुष्ठानानन्तरं श्रौतं किमपि कर्म अकृत्वा शुक्रास्तादिदोषादृषिते पर्वणि (पौर्णमास्यां) पूर्णमासेष्टिं, तदनन्तरदशैं दर्शेष्टिं चानुतिष्ठति यदि तदा तत् इष्टिपूर्वाधानमित्युच्यते । अस्मिन् पक्षे कालं सामग्रीसम्पदं च अवाप्य सोमादीननुतिष्ठेद्यागान् । अथ वा वसन्ते कस्मिंश्चिदिने शुभे आधानं कृत्वा तत्समनन्तरदिन एव सोमयागाय यदि सङ्कल्पयेत् तत् सोमपूर्वाधानम् । पक्षेऽस्मिन् सोमयागं परिसमाप्य तस्मिन्नेव दिने सायमग्निहोत्रमारभेत । अनन्तरपूर्णिमायां पूर्णमासेष्टिमित्यादि । त्रयाणाममीपां पक्षाणां स्वेच्छया विकल्पः परिग्रहणे । सङ्कल्पे परमेषां वैलक्षण्यम् , न त्वनुष्ठाने ॥ 

तत्र यदहरमीनाधास्यमानः स्यात् तत्पूर्वदिने कृतपापानुगुणप्रायश्चित्तो निष्कल्मषीभूय, आभ्युदयिकश्राद्धादिकमनुष्ठाय सपत्नीको यजमानो गृहीतनियमो वर्तेत । श्वोभूते कृतनित्यक्रियो भार्यया सह आधानार्थं सङ्कल्पं कुर्यात् । आधानस्य फलमग्नीनां गार्हपत्य-आहवनीयदक्षिणानीनां त्रयाणां, सभ्य-आवसथ्यसहितानां पञ्चानां वा सिद्धिरेव । अतः आधानं न कस्यचित् कर्मणोऽङ्गभूतम् , किं तु स्वतन्त्रमेव कर्म ।।

_________________________________________________________________________________

क. आधानस्य ब्राह्मणकर्तृकस्य वसन्तर्तुरेव कालो विहितः श्रुतौ" वसन्ते ब्राह्मणोऽग्नीनादधीत " इति ।। 
ख. होमः अमिहोत्र होमः । ततः पूर्वमेव क्रियमाणमाधानं होमपूर्वाधानम् । अतश्च आधानानन्तरमेव अमिहोत्रारम्भे होमपूर्वाधानम् । आधानानन्तरमेव दर्शपूर्णमासेष्टथारम्भे इष्टिपूर्वाधानम् । आधानानन्तरमेव सोमयागसङ्कल्पे सोमपूर्वाधानमिति सिद्धम् ॥ 
ग. मङ्गलकार्येषु क्रियमाणं श्राद्धम् आभ्युदायिकमित्युच्यते । अभ्युदयसम्बन्धि आभ्युदयिकमिति ॥

No comments:

Post a Comment

Yagna Tatwa Prakashika Page 103 Somayaga Nirupanam

  ९२ यज्ञतत्त्वप्रकाशे  [१] इयं च त्रिवृदादिसङ्ख्या वारत्रयमावृत्ताभिस्तिसृभिऋग्भिस्सम्पा-दनीया । तद्यथा— माध्यन्दिनपवमानाख्यमेकं स्तोत्रम् ...