Tuesday, December 7, 2021

YagnaTathwa Prakashika -016


आधाननिरूपणम् 


प्रक्षिपेत् । अवशिष्टम त्रेधा विभज्य, आहवनीय-सभ्य वसथ्यायतनेषु प्रक्षिपेत् । केचित् सभ्य आवसथ्यौ न आदधते । अस्मिन् पक्षे तस्यास्य आहवनीय एव निवपनं कार्यम् ॥ 

गार्हपत्याधानम् 

अनेनैव प्रकारेणेतरानपि पार्थिवान् सम्भारान् विभज्य, तेषु तेष्वायतनेषु निदध्यात् । एवं सप्त पार्थिवान् सम्भारान् आयतनेषु न्युप्य, तदुपरि तेनैव प्रकारेण सप्त वानस्पत्यानपि सम्भारान् न्युप्य, तदुपरि हिरण्यं निवपेत् । ततः पूर्व शमितस्याग्नेः भस्म अपोह्य, तदुपरि अरणी निक्षिप्य, तत्समीपे श्वेतमश्वमेकं बद्ध्वा, अरणी मन्थेत् । ततोऽग्नावुत्पन्ने सति यजमानो कवरमध्वर्यवे दद्यात् । ततोऽध्वर्युमंथनजातमग्निं करीपकाष्ठशकलप्रक्षेपादिना वर्धयित्वा वेदेः पश्चिमभागावस्थिते गार्हपत्यार्थे कुण्डे पूर्वनिर्मिते स्थापयेत् । इदमेव वगार्हपयाधानम् । ततो ब्रह्मा सामगानं कुर्यात् , न वा ।। 

दक्षिणाग्न्याधानम् 

ततः सूर्यस्य अर्धोदय समये गार्हपत्यं प्रज्वाल्य, तत्र अश्वत्थकाष्ठान्याधाय, प्रदीप्तानि तान्यंशतो गृहीत्वा, सिकताभिरुपसङ्ग्रह्य, उपर्युद्धृत्य हस्तेन धारयन्नध्वयुस्तिष्ठेत् । तदा आनीधो लौकिकमग्निं यतः 

क. यत्र यत्र सामान्यतो वरो देयत्वेन विहितस्तत्र सर्वत्र गोरेव अभिप्रेता । गामेका दयादिति यावत् । गवाभावे तन्मूल्यं निकपरिमाणं सुवर्ण वा देयम् ।। 

ख. गार्हपत्यागेरायतनं वृनाकारम् । आहवनीयाय चतुरश्रम् । दक्षिणाग्नेरर्धचन्द्राकृति । गार्हपत्यायतनमध्यात् प्राच्या दिशि पण वत्यङ्गुलमिताया भूमावाहवनीयमध्यं स्यात् । केचित् गार्हपत्याहवनीययोरन्तरालगताया एव वेदेस्तावन्मानमिच्छन्ति । गार्हपत्यायतनस्य आनेय्या दिशि तत्संलमप्रायमेव दक्षिणानेरायतनं भवति ॥ 

ग. आहवनीयाधानार्थ प्रज्वालितान गार्हपत्यानेः कञ्चित् भागमादाय पात्रे कस्मिंश्चिन्निधाय साग्नि तत् पात्रं स्वहस्ते गृहीत्वा तत्रैव तिष्ठत्यध्वर्यो आग्नीधी दक्षिणाभिमादध्यात् इत्यापस्तम्बः ।। 

Sce. आप. श्री. ५. १३. ८. १. See. आप. श्री. ५. १७, १८, बौधा. औ. २. १६. कात्या. ४. ८, ९. _ .



No comments:

Post a Comment

Yagna Tatwa Prakashika Page 103 Somayaga Nirupanam

  ९२ यज्ञतत्त्वप्रकाशे  [१] इयं च त्रिवृदादिसङ्ख्या वारत्रयमावृत्ताभिस्तिसृभिऋग्भिस्सम्पा-दनीया । तद्यथा— माध्यन्दिनपवमानाख्यमेकं स्तोत्रम् ...