Tuesday, December 7, 2021

YagnaTathwa Prakashika -018

 

आधाननिरूपणम् 

पवमानेष्टयः 

तदनन्तरं पवमानेष्टयः । तास्तिस्रः । तत्र प्रथमाया अग्निः पवमानो देवता । द्वितीयस्या अग्निः पावकः । तृतीयस्या अग्निः शुचिः । सर्वत्र अष्टाकपालः पुरोडाशो द्रव्यम् । ता एता आधानदिन एवं समानतन्त्रेण अनुष्ठेयाः । अथ वा आधानदिनात् ब्यहे, व्यहे चतुरहे, अर्धमासे, मासे, मासद्वये संवत्सरे वा कर्तुं शक्यन्ते । परममीषां कालानां विकल्पः । यस्मिन् दिन एताः पवमानेष्टयः क्रियेरन् तस्मिन्नेव दिने सायमग्निहोत्रमारभेत । आधानात् कालान्तरे पवमानेष्टीनामुत्कर्षे अग्निहोत्रस्याप्युत्कर्षः । (कालान्तरेऽनुष्ठानम् ) । 

आधानपवमानेष्टीनामङ्गाङ्गिभावः 

पवमानेष्टीनामाधानाङ्गत्वमिति केचन मीमांसकाःख । तन्मते साङ्गस्यैव कर्मणः फलजनकत्वात् पवमानेष्टीनामनुष्ठानानन्तरमेवाग्नीनां सिद्धेः तदनन्तरमेव अग्निहोत्रारम्भः । केचित्तु न आधानपवमानेष्टीनामङ्गाङ्गिभावः । परमाधानवत् पवमानेष्टीनामपि स्वत एवाहवनीयादिसम्पादकत्वम् । अत उभयेषां समुच्चय इति कथयन्ति । अस्मिन्नपि पक्षे पवमानेष्टीविना आहवनीयाद्यनिष्पत्तेः पवमानेष्टीरनुष्ठायैव तदनन्तरमग्निहोत्रारम्भः कर्तव्यः । अस्य सायमेव आरम्भः । सायं. प्रातरनुष्ठीयमानं प्रयोगद्वयं मिलित्वकं कर्म भवति । सायहोमस्य अमिदेवताकत्वादेव अस्य कर्मणोऽग्निहोत्रमिति नाम सम्पन्नमिति मीमांसकाः ॥ 

इदानीम् आधानापेक्षितानां द्रव्याणां पात्राणां च नामानि विलिख्यन्ते 

_________________________________________________________________________

क. अत्र प्रथमाया एवेष्टेरग्निः पवमानो देवता, नेतरयोः । तथापि तिसृणामपि पवमानेष्टित्वेन व्यवहारो याशिकसम्प्रदाये प्रसिद्धः ॥ 

ख. आधानप्रकरणे पाठात् फलाश्रवणाच आधानाङ्गं पवमानेष्टय इति मीमांसावार्तिककारः । 'यदाहवनीये जुह्वति' इति स्वतन्त्रविधिना पवमानेष्टीनामग्न्यङ्गत्वविधानात् आधानवत् तासामन्यग्निसम्पादकत्वमेवेति मीमांसाभाष्यकार: । 

________________________________________________________________________________

See. पू. मी. ३. १. १२. १. See. पू. मी. १. ४. ४.

No comments:

Post a Comment

Yagna Tatwa Prakashika Page 103 Somayaga Nirupanam

  ९२ यज्ञतत्त्वप्रकाशे  [१] इयं च त्रिवृदादिसङ्ख्या वारत्रयमावृत्ताभिस्तिसृभिऋग्भिस्सम्पा-दनीया । तद्यथा— माध्यन्दिनपवमानाख्यमेकं स्तोत्रम् ...