अङ्गारान् पृथक्कृत्य तदायतनाद्वहिः वायव्यकोणे तान्निक्षिप्य, तदुपरि अग्निहोत्रार्थपयःपूर्णा कुम्भी निक्षिप्य, तत् पयः श्रपयेत् । यस्मिन् पात्रे दोहनं कृतं तत् पात्रं प्रक्षाल्य, तजलं पात्रस्थदुग्धमिश्रम् अन्यद्वा शुद्धजलं स्रुव आनीय, तत् कुम्भ्यां प्रतिषिच्य त्रिः पर्यग्नि कृत्वाख गवर्मकरणेन प्रागुद्वास्य, विभूमौ तत् प्रतिष्ठाप्य, पूर्व गार्हपत्यादुधृतानङ्गारान् पुनस्तस्मिन्नेव प्रतिक्षिप्य, स्रवमग्निहोत्रहवणीं च गृहीत्वा ते आहवनीये प्रतितप्य, सम्मृश्य, कुम्भीतः पयो गृहीत्वा, अग्निहोत्रहवण्यां क्षिपेत् । एवं चतुर्वारं क्षेप्तव्यम् । तत् हविरुन्नयनमित्युच्यते । उन्नीतं तत् पयः गाईपत्यस्य पश्चिमभागे स्थापयित्वा गार्हपत्ये स्वं हस्तं प्रताप्य, तेन तत् पयः सम्मृश्य, प्रादेशमात्री पलाशसमिधम् एकां, द्वे, तिस्रो वा अग्निहोत्रहवण्या उपरि धारयन् गार्हपत्यस्योपरिभागेन ता आहवनीयसमीपे नयन् , आहवनीयस्य पश्चिमभागे सादयित्वा, अप उपस्पृश्य, ततस्ताः समिधः (एकां, द्वे, तिस्रो वा यथापूर्व गृहीताः) आहवनीय आधाय, अग्निहोत्रवणीस्थं पय आहवनीये जुहुयात् । सा अग्निहोत्रस्य प्रथमा आहुतिः । सा अग्निदेवत्या ॥
ततः नगग्रात् पयोलेपं हस्तेन गृहीत्वा भूमौ नि मृज्य, अग्निहोत्रहवणीं भूमौ निक्षिप्य, गार्हपत्यं समीक्ष्य, पुनस्तां गृहीत्वा द्वितीयामाहुति जुहुयात् । सा प्रजापतिदेवताका । एवं प्रातरप्याहुतिद्वयं होतव्यम् । तत्र प्रथमा सूर्यदेवत्या । द्वितीया प्रजापतिदेवताका । इमाश्चतस्त्र आहुतयः अग्निहोत्रे प्रधानभूताः । अमूषां चतसृणामाहुतीनां मध्ये सायंकालीनप्रथमाहुतेरग्निदेवत्यत्वात् तदादायैव सर्वांसामाहुतीनामग्निहोत्रनामत्वं छत्रिन्यायेन । इदं च आपस्तम्बादियाजुर्वैदिकमतेन ॥
_________________________________________________________________________________
- क. वर्तुलपुष्करो दाकारः स्त्रवः ।
- ख. कुम्भ्या उपर्यङ्गारैः परितो श्रामणं पर्यमिकरणम् । -
- ग. अग्निसमीपे उद्वासितां कुम्भी भूमौ निक्षिप्य, तथैव प्राग्देशं -प्रति करेत् । तदाकर्षमार्गः कृष्णवर्णो भवति । स व्यापारी वर्मकरणमित्युच्यते ।
- घ. नवागुलिपरिमाणः प्रादेशः ।
- ङ. यया अग्निहोत्रं हूयते सा जुहाकारा अमिहोत्रहवणी।
- च. बहूनां मध्ये एकस्यापि नद्विशिष्टत्वे सति तदादाय सर्वेषु तत्सम्बद्धेषु तच्छब्दप्रयोगः छत्रिन्यायः ।
_________________________________________________________________________________
(See. पू . मी. १. ४. १९.) १. See. आप, श्री. ६. १३. १-९.
No comments:
Post a Comment