एतादृशे समये कलिकाताविश्वविद्यालय:-~य: भारतीयप्राचीनसभ्यतापरिरक्षणे प्राथम्यमावहति-विषयमिमम् अध्येयकोटी निवेशयतीति स सर्वथा श्लाघनीय इत्यत्र नास्ति विशयलेशोऽपि । विषयस्वरूपमात्रनिरूपणप्रवणेन मया तत्तच्छ्रौतसूत्रस्वरूपनिर्देशादिकं न कृतम् । साधारण्येन परं तत्तत्स्थलनिर्देशः कृतः अधष्टिप्पण्यां तत्र तत्र । अध्येतृणाम् उपकारमेव विशेषतो मनसिकृत्य तदनुसारेणैव अन्थोऽयमारचित इति तु विज्ञा विजानीयुरेवेति नात्र अधिकं वक्तुमुत्सहे । अतो विद्वद्वराः विशेषेण च विद्यार्थिनः ग्रन्थमिमं यथावदुपयुज्य प्रयत्नं मदीयं सफलयेयुरिति सुदृढं विश्वसिमि ॥
स्थलेषु बहुषु समुत्पन्नान संशयान दूरीकृत्य पदार्थयाथायं तदा तदा विवेचितवतां श्रोतविद्यायां भारतदेशे इदानीं प्रथमगणनीयानां त्रिीतभास्करादिविविधोपाधिविभूषितानां नलिच्चेरि - श्रीरामनाथश्रोतिमहोदयानां शतश उपकारान् प्रशंसामि कृतज्ञतापूर्वकम् ॥
अमूल्यमतिगभीरमात्मीयमाशयमेतद्ग्रन्थविषयकमाविष्कृत्य प्रथमिमं पाठकानां पुरः कृतवद्धयः कलिकाताविश्वविद्यालये संस्कृतविभागीयप्रधानाध्यापकपदं (Asutosh Professor) अलङ्कुर्वद्धः विद्वत्कुलमूर्धाभिषिक्तेभ्यः श्रीसातकरीमुख्योपाध्यायमहोदयेभ्यो बहुशो धन्यवादान हार्दिकान् वितरामि ।।
इति कलिकाता
विदुषां वशंवदः १५-७-२५१)
अ. चिन्नस्वामिशास्त्री.
Yagna Tathwa Prakasha: महामहोपाध्यायश्रीचिन्नस्वामिशास्त्रिविरचितः अग्न्याधेयादिचातुर्मास्यान्तहविर्यज्ञनिरूपणरूपः
Subscribe to:
Post Comments (Atom)
Yagna Tatwa Prakashika Page 103 Somayaga Nirupanam
९२ यज्ञतत्त्वप्रकाशे [१] इयं च त्रिवृदादिसङ्ख्या वारत्रयमावृत्ताभिस्तिसृभिऋग्भिस्सम्पा-दनीया । तद्यथा— माध्यन्दिनपवमानाख्यमेकं स्तोत्रम् ...
-
॥ विषयसूची ॥ पृष्ठम् प्रथमभागे विषयः पृष्ठम् | विषयः मङ्गलाचरणम् १ आज्यग्रहणम् अग्न्याधेयम् वेदिस्तरणं पात्रसादनं च गार्हपत्याधानम् ५ ...
-
९२ यज्ञतत्त्वप्रकाशे [१] इयं च त्रिवृदादिसङ्ख्या वारत्रयमावृत्ताभिस्तिसृभिऋग्भिस्सम्पा-दनीया । तद्यथा— माध्यन्दिनपवमानाख्यमेकं स्तोत्रम् ...
-
अग्निहोत्रनिरूपणम् वत्सतयः तिस्रः (अध्वर्यवे दानाय) यज्ञियवृक्षकाष्ठानि (अग्निसमिन्धनार्थम् ) अश्वः (अग्न्यायतनेषु पदनिक्षेपणाद्यर्थम् ...
No comments:
Post a Comment