Sunday, February 15, 2026

Yagna Tathwa Prakashika Page - 26

 

१४
यज्ञतत्त्वप्रकाशे
धार्यः । इतरावग्नी तत्तत्कर्मकाले गार्हपत्यादु‌द्धृत्य स्वस्वायतने स्थाप्येते । यदर्थमुद्‌धृतौ तौ तत्कर्मसमाप्त्यनन्तरं तथैव परित्यज्येते । तौ तत्रैव शान्तौ भवतः । पुनः कर्मकाले तौ नवीनतया गार्हपत्यात् प्रणीय स्वस्वकुण्डे स्थापयित्वा कर्मकरणम् । सायं प्रातश्च होमकाले, रात्रौ च यजमानस्तत्पत्नी वा, अग्न्यगारेऽवश्यं वर्तेत, न अन्यत्र गच्छेत् । अन्यतरेण गृहेऽवश्यं स्थातव्यम्। द्वयोरपि बहिर्यामान्तरगमनावश्यकतायां सहैव अग्निभिः गच्छेताम् ॥
अग्निसमारोपणादि.
तत्र यजमानोऽग्नीनरण्योरात्मनि वा समारोप्य पत्न्या आन्वारब्ध एव गच्छेन्मौनेन । गन्तव्यदेशं प्राप्य, पूर्व समारोपितानग्नीन् मन्त्रेणोपावरोहयेत् । तत्र आत्मसमारोपणे गन्तव्यदेशप्राप्त्यनन्तरं लौकिकमग्नि शिष्टवैदिकगृहादाहृत्य तस्मिन्नात्मसमारोपितमग्नि मन्त्रेणोपा-वरोहयेत् । अरणिसमारोपणे तु गन्तव्यदेशावधि ते अरणी यजमान एव स्वहस्त आदाय गच्छेत्। गत्वा तत्र अरणी मथित्वा तत उत्पन्नेऽग्नौ उपावरोहणं कुर्यात् । गृह एवं अग्नि परित्यज्य, पत्नीयजमानयोरुभयोरपि बहिर्गमनेऽग्निविनाशो भवेत् । तदा पुनरग्निमत्त्वसिद्धये पुनराधानमेव
क. अत्र धारणं नाम — गार्हपत्यकुण्डेऽन्तः करीषपिण्डं निक्षिग्य तदुपरि गाईपत्याग्निं प्रज्वलय्य, पिण्डे तं सङ्क्रमयेत् । तत्र सङ्क्रान्तोऽमिर्यथा सर्वदा तिष्ठेत् तथा रक्षणमेव । न तु तस्य सर्वदा प्रज्वालनम्। एवमेव (गतश्रियः) लब्धधनस्य, आमनेतुः, राजन्यस्य च त्रयाणां पञ्चानां वा अग्नीनामजस्त्ररक्षणम् । होमकाले तु कुण्डान्तःस्थान् तान् करीबपिण्डान् साझीन् बहिरुद्धृत्य, पुनस्तत्तत्कुण्डानामन्तः करीषपिण्डान्तराणि निक्षिप्य, तांस्तुपैः भस्मना वा आच्छाय, तदुपरि पूर्वोद्धृतान् तांस्तानग्रीनवस्थाप्य प्रज्वलय्य तत्र जुहुयादित्येव याज्ञिकसंप्रदायः ।
ख. समारोपणं नाम — गार्हपत्यकुण्डगतस्य अग्नेररण्योग रोहणार्थ मन्त्रेण प्रार्थना । तथा आरूढत्वेन मनसा चिन्तनं च ।
ग. उपावरोहणं नाम — लौकिके, अरणिमथिते वा अग्नी मन्त्रेण अवतारणम्, तथा चिन्तनं च ।

घ. अग्निविनाशो नाम — अग्निनिष्ठाइयनीयत्वाद्यदृष्टधर्मविनाशः । न तु स्वरूपनाशः । तत्स्वरूपत्य तथैव अवस्थितेः । पुनस्तादृशादृष्टोत्पादनार्थमेव च पुनराधानानुष्ठानम् ।

No comments:

Post a Comment

Yagna Tatwa Prakashika Page 103 Somayaga Nirupanam

  ९२ यज्ञतत्त्वप्रकाशे  [१] इयं च त्रिवृदादिसङ्ख्या वारत्रयमावृत्ताभिस्तिसृभिऋग्भिस्सम्पा-दनीया । तद्यथा— माध्यन्दिनपवमानाख्यमेकं स्तोत्रम् ...