Tuesday, December 7, 2021

YagnaTathwa Prakashika -025

 


यज्ञतत्त्वप्रकाशे  

धार्यः । इतरावग्नी तत्तत्कर्मकाले गार्हपत्यादुद्धृत्य स्वस्वायतने स्थाप्यते । यदर्थमुद्धृतौ तौ तत्कर्मसमाप्यनन्तरं तथैव परित्यज्यते । तौ तत्रैव शान्तौ भवतः । पुनः कर्मकाले तौ नवीनतया गार्हपत्यात् प्रणीय स्वस्वकुण्डे स्थापयित्वा कर्मकरणम् । सायं प्रातश्च होमकाले, रात्रौ च यजमानस्तत्पनी वा, अग्न्यगारेऽवश्यं वर्तेत, न अन्यत्र गच्छेत् । अन्यतरेण गृहेऽवश्यं स्थातव्यम् । द्वयोरपि बहिनामान्तरगमनावश्यकतायां सहैव अग्निभिः गच्छेताम् ।। ___ 

अग्निसमारोपणादि. 

तत्र यजमानोग्नीनरण्योरात्मनि वा समारोप्य पन्या आन्वारब्ध एव गच्छन्मौनेन । गन्तव्यदेशं प्राप्य, पूर्व समारोपितानग्नीन् मन्त्रेणोपावरोहयेत् । तत्र आत्मसमारोपणे गन्तव्यदेशप्राप्त्यनन्तरं लौकिकमग्नि शिष्टवैदिकगृहादाहृत्य तस्मिन्नात्मसमारोपितमग्नि मन्त्रेणोपावरोहयेत् । अरणिसमारोपणे तु गन्तव्यदेशावधि ते अरणी यजमान एव स्वहस्त आदाय गच्छेत् । गत्वा तत्र अरणी मथित्वा तत उत्पन्नेऽग्नौ उपावरोहणं कुर्यात् । गृह एव अग्नि परित्यज्य, पत्नीयजमानयोरुभयोरपि बहिर्गमनेऽग्निविनाशो भवेत् । तदा पुनरग्निमत्त्वसिद्धये पुनराधानमेव 

_________________________________________________________________________

  • क. अत्र धारण नाम-----गार्हपत्यकुण्डेऽन्तः करीषपिण्डं निक्षिप्य तदुपरि गाहपत्यामिं प्रज्वलय्य, पिण्डे तं सङ्क्रमयेत् । तत्र सङ्क्रान्तोऽमियथा सर्वदा तिष्ठेत् तथा रक्षणमेव । न तु तस्य सर्वदा प्रज्वालनम् । एवमेव (गतश्रियः) लब्धधनस्य, प्रामनेतुः, राजन्यस्य च त्रयाणां पञ्चानां वा अमीनामजस्ररक्षणम् । होमकाले तु कुण्डान्तःस्थान् तान् करीबपिण्डान् सानीन् बहिरुद्धृत्य, पुनस्तत्तत्कुण्डानामन्तः करीषपिण्डान्तराणि निक्षिप्य, तांस्तुपैः भस्मना वा आच्छाद्य, तदुपरि पूर्वाद्धृतान् तांस्ताननीनवस्थाप्य प्रज्वलय्य तत्र जुहुयादित्येव याज्ञिकसंप्रदायः। 
  • ख. समारोपणं नाम - गार्हपत्यकुण्डगतस्य अमेररण्योगरोहणार्थ मन्त्रेण प्रार्थना । तथा आरूढत्वेन मनसा चिन्तनं च । ग. उपावरोहणं नाम - लौकिके, अरणिमथिते वा अनी मन्त्रेण अवतारणम् , तथा चिन्तनं च। 
  • घ. अग्निविनाशो नाम - अमिनिष्ठाहवनीयत्वाद्यदृष्टधर्मविनाशः । न तु स्वरूपनाशः । तत्स्वरूपस्य तथैव अवस्थितेः । पुनस्तादृशादृष्टोत्पादनार्थमेव च पुनराधानानुष्ठानम्।

YagnaTathwa Prakashika -024

 

अग्निहोत्रप्रशंसा 

तृणमङ्क्त्वा , तदाहवनीये प्रहृत्य, अग्निहोत्रस्थाली प्रक्षाल्य, हविरुननयनदेशे तज्जलं निनयेत् । ततो यजमानो वेद्यां हस्तं प्रसार्य, तस्मिन्नप आसिच्य ताः स्वशिरस्यानयेत् । एतदन्तमग्निहोत्राख्यं कर्मोच्यते ।। 

अग्निहोत्रे कर्ता 

इदमग्निहोत्रं सायंप्रातःकालयोः यजमानः स्वयमेव जुहुयात् । यदि न शक्यते तर्हि पुत्रादिभिः ऋत्विजा वा कारयेत् । पर्वणि तु (पौर्णमास्याम् अमावास्यायां वा) यजमान एव जुहुयात् , नान्यहवियेत् । तत्र नित्यद्रव्यं पयः, दधि, यवागूश्च । एतेषामेव फलार्थतयाप्यनुष्ठानम् । तत्र पशुकामः स्वर्गकामो वा पयसा जुहुयात् । इन्द्रियकामो दना, यवाग्वा ग्रामकामः, ओदनेन अन्नकामः, तण्डुलैरोजस्कामो बलकामो वा । तेजस्कामो घृतेन इति काम्यानि द्रव्याणि ।। 

अग्निहोत्रप्रशंसा 

इदं च अग्निहोत्रं गृहस्थेनैव सभार्येण सता अवश्यमनुष्ठेयम् । कस्यामप्यवस्थायामग्निहोत्ररहितेन न स्थातव्यं त्रैवर्णिकेन । दीनो धनी वा सर्वोऽपीदमनुतिष्ठेत् यावत् जीवति । सत्स्वप्यतिमहत्सु. बहुवर्षे. बहुव्ययसाध्येषु क्रतुषु अग्निहोत्रस्य वेदेषु पुराणेषु तदनुयायिषु च ग्रन्थेषु यावती प्रशंसा दृश्यते सा न अन्यस्य कस्यापि क्रतोः । अग्निहोत्रमननुष्ठाय नान्यः क्रतुरनुष्ठातुं शक्यते । तत्र विवाहानन्तरं जातपुत्रकृष्णकेशत्वोपलक्षिते वयसि वर्तमानेन त्रैवर्णिकन पुरुषेण सपत्नीकेन अग्न्याधेयं कर्तव्यमित्युक्तं प्राक् । एवमाहितानां गार्हपत्यदक्षिणाग्न्याहवनीयरूपाणां त्रयाणामग्नीनां मध्ये गार्हपत्योऽग्निरविच्छेदेन यावजीवं 

______________________________________________________________________________

क. तत्रामावास्यायां रात्रौ यवाग्वा अमिहोत्रं कर्तव्यम् , नान्यैव्यैः । तण्डलैः शिथिलपक्का यवागूः इति कर्कः । विरलद्रवा सेत्यपरे । __________________________________________________________________________

१. See. आप. श्री. ६. १५. १. का. श्री. ४. १५. १२-२५ । पयो - यवागूरिति धूर्तस्वामी । अत्यन्तद्रवरूपेण पकास्तण्डुला एव यवागूरिति सम्प्रदायः । सान्नाय्ययाजिन एव अयं यवागूनियमः । तस्य आतञ्चनार्थ तदपेक्षणात् । See. also. आश्व. श्री. २. ३, १.

YagnaTathwa Prakashika -023

 

यज्ञतत्त्वप्रकाशे 

अग्निहोत्रनाम्नि मतभेदः 

बचानां तु उपरि वक्ष्यमाणाः-गार्हपत्ये चतस्रः, दक्षिणाग्नौ चतम इत्यष्टौ, एवं प्रातरष्टौ इत्येवं षोडश । पूर्वोक्ताश्चतस्र इति मिलित्वा विंशतेरप्याहुतीनाम् अग्निहोत्रशब्दवाच्यत्वम् । मीमांसकसम्प्रदायोऽपीमं पक्षं परिपुष्णाति । होमकालेऽग्निहोत्रहवणीस्थं पयो न सर्व होतव्यम् । किन्तु भक्षार्थ किञ्चित्तत्रैव अवशेषयेत् । ततः पूर्ववल्लेपं गृहीत्वा वेदिभूमौ निमृजेत् । तत् पितृदेवताकम् । ततोऽग्निहोत्रहवणीं भूमौ निक्षिप्य स्रवं गृहीत्वा तं पयसा प्रपूर्य तेन गार्हपत्ये चतस्र आहुतीः दक्षिणाग्नौ च तावतीराहुतीर्जुहुयात् । तत्र अग्निः गृहपतिः देवता आदितश्चतसृणामाहुतीनाम् । अग्निहपतिः, रयिपतिः, पुष्टिपतिः, कामः, अन्नाद्यो वा विकल्पेन । एवमग्निरदाभ्यः परिषद्यो दाक्षिणाग्निकानां प्रथमातृतीया: चतुर्थीनामाहुतीनां देवता । अग्निरन्नपतिर्द्वितीयस्या इति वेदितव्यम् ॥ 

अग्न्युपस्थानं लेपभक्षश्च 

एवं होमान् हुत्वा, अग्नीन् परिषिच्य, आहवनीयस्य दक्षिणभागेऽवस्थाय, अग्नीनुपतिष्ठेत । ततो वेदिमध्येऽग्निहोत्रहवीं निधाय, लेप होमावशिष्टं भक्षयित्वा, आचम्य, द्विः स्रचं निर्लिय, हस्तं प्रक्षाल्य आचम्य, ततो जलेन तां पूरयित्वा तयैव आचम्य, अग्निहोत्रहवणीं दर्भः संशोध्य प्रक्षालयेत् । ततः पुनस्तां पूरयित्वा तजलं चतसृष्वपि दिक्षु हस्तेन व्युत्सिञ्चेत् तस्यै तस्यै देवतायै (विभज्यो सेचनं व्युत्सेचनम्) । तत्र सर्पाः, सर्पाः पिपीलिकाः, सर्पतरजनाः, सर्पदेवजनाश्च क्रमेण देवताः । पुनश्च तां पूरयित्वा आहवनीयस्य पश्चात् तदेकदेशं बनिनीय, शेष पन्या अखलौ निनयेत् । पुनस्तां जलेन पूरयित्वा सप्तर्षिभ्य उदग्देशे तजलं निनयेत् । ततः प्रत्यावृत्य अग्नीन् प्रज्वलयेत् । ततोऽग्नीन् पूर्ववत परिषिच्य "अनाज्ञातादिमन्त्रत्रयं बपित्वा, अग्निहोत्रस्थाल्यां _______________________________________________________________________________

  • क. निर्लेहनं नाम पात्रगतस्य पयसो जिह्वाग्रेण पात्रस्पृष्टेन चूषणम् । तच्च कलियुगे निषिद्धमिति नेदानीं याशिकैरनुष्ठीयते । 
  • ख, निनयनं क्षारणम् । 
  • ग, अनाशातपदघटितमन्त्रादिकं मन्त्रत्रयं तच्छब्देन व्यवहियते । .

___________________________________________________________________________

१. See. आप. श्री. ६. १३. ९, also. आश्व. श्री. २. २.

YagnaTathwa Prakashika -022

 

अमिहोत्रनिरूपणम् 

अङ्गारान् पृथक्कृत्य तदायतनाद्वहिः वायव्यकोणे तान्निक्षिप्य, तदुपरि अग्निहोत्रार्थपयःपूर्णा कुम्भी निक्षिप्य, तत् पयः श्रपयेत् । यस्मिन् पात्रे दोहनं कृतं तत् पात्रं प्रक्षाल्य, तजलं पात्रस्थदुग्धमिश्रम् अन्यद्वा शुद्धजलं स्रुव आनीय, तत् कुम्भ्यां प्रतिषिच्य त्रिः पर्यग्नि कृत्वाख गवर्मकरणेन प्रागुद्वास्य, विभूमौ तत् प्रतिष्ठाप्य, पूर्व गार्हपत्यादुधृतानङ्गारान् पुनस्तस्मिन्नेव प्रतिक्षिप्य, स्रवमग्निहोत्रहवणीं च गृहीत्वा ते आहवनीये प्रतितप्य, सम्मृश्य, कुम्भीतः पयो गृहीत्वा, अग्निहोत्रहवण्यां क्षिपेत् । एवं चतुर्वारं क्षेप्तव्यम् । तत् हविरुन्नयनमित्युच्यते । उन्नीतं तत् पयः गाईपत्यस्य पश्चिमभागे स्थापयित्वा गार्हपत्ये स्वं हस्तं प्रताप्य, तेन तत् पयः सम्मृश्य, प्रादेशमात्री पलाशसमिधम् एकां, द्वे, तिस्रो वा अग्निहोत्रहवण्या उपरि धारयन् गार्हपत्यस्योपरिभागेन ता आहवनीयसमीपे नयन् , आहवनीयस्य पश्चिमभागे सादयित्वा, अप उपस्पृश्य, ततस्ताः समिधः (एकां, द्वे, तिस्रो वा यथापूर्व गृहीताः) आहवनीय आधाय, अग्निहोत्रवणीस्थं पय आहवनीये जुहुयात् । सा अग्निहोत्रस्य प्रथमा आहुतिः । सा अग्निदेवत्या ॥ 

ततः नगग्रात् पयोलेपं हस्तेन गृहीत्वा भूमौ नि मृज्य, अग्निहोत्रहवणीं भूमौ निक्षिप्य, गार्हपत्यं समीक्ष्य, पुनस्तां गृहीत्वा द्वितीयामाहुति जुहुयात् । सा प्रजापतिदेवताका । एवं प्रातरप्याहुतिद्वयं होतव्यम् । तत्र प्रथमा सूर्यदेवत्या । द्वितीया प्रजापतिदेवताका । इमाश्चतस्त्र आहुतयः अग्निहोत्रे प्रधानभूताः । अमूषां चतसृणामाहुतीनां मध्ये सायंकालीनप्रथमाहुतेरग्निदेवत्यत्वात् तदादायैव सर्वांसामाहुतीनामग्निहोत्रनामत्वं छत्रिन्यायेन । इदं च आपस्तम्बादियाजुर्वैदिकमतेन ॥ 

_________________________________________________________________________________

  • क. वर्तुलपुष्करो दाकारः स्त्रवः । 
  • ख. कुम्भ्या उपर्यङ्गारैः परितो श्रामणं पर्यमिकरणम् । - 
  • ग. अग्निसमीपे उद्वासितां कुम्भी भूमौ निक्षिप्य, तथैव प्राग्देशं -प्रति करेत् । तदाकर्षमार्गः कृष्णवर्णो भवति । स व्यापारी वर्मकरणमित्युच्यते । 
  •  घ. नवागुलिपरिमाणः प्रादेशः । 
  • ङ. यया अग्निहोत्रं हूयते सा जुहाकारा अमिहोत्रहवणी। 
  • च. बहूनां मध्ये एकस्यापि नद्विशिष्टत्वे सति तदादाय सर्वेषु तत्सम्बद्धेषु तच्छब्दप्रयोगः छत्रिन्यायः ।

_________________________________________________________________________________

 (See. पू . मी. १. ४. १९.) १. See. आप, श्री. ६. १३. १-९.

YagnaTathwa Prakashika -021


 यज्ञतत्वप्रकाशे 

अवश्यकर्तव्येषु नित्यकर्मसु परिगणितं स्मृतिकारैः । अत एव तत् यावजीवमनुष्ठेयम् । दर्शपूर्णमासोक्तः कालविकल्पः-जराजीणों वा विरमेत् , विंशतिं वा वर्षाणि अविच्छेदेन अनुष्ठाय ततः परित्यजेत् इत्यादि त्र प्रसरति । तस्य च सायमुपक्रमः (आरम्भः), प्रातरपवर्गः (समाप्तिः) । एवं च सायं प्रातरिति कालद्वयानुष्ठानादेकं कर्म निष्पन्नं भवति । तत्र सायङ्काले यदा सूर्यरश्मयः भूभागं परित्यज्य वृक्षाग्र एव प्रकाशमाना दृश्यन्ते तदा सायहोमाः; प्रातःकाले च प्राच्यां दिशि यदा रश्मय आविर्भूता भवन्ति तदा च प्रातर्होमा अनुष्ठेयाः ॥

अमिहोत्रे उदितानुदितहोमिभेदः 

तत्र उदितहोमिनः केचित् । केचिदनुदितहोमिनः । तेषु बह्वचाः कातीयाः छन्दोगाश्च अनुदितहोमिनः । कठास्तैत्तिरीया मैत्रायणीयाश्च उदितहोमिनः । अग्निप्रणयनं परं सर्वेषामुदयास्तगययोः पूर्वमेव । उदयादस्तमयाच पूर्वमेव गार्हपत्यादग्निमुद्धृत्य कुण्डेषु स्थापयित्वा प्रज्वलयेत् । ततोऽनुदय उदये वा स्वसूत्रानुसारमग्निहोत्रमनुतिष्ठेत् ।।

तदनुष्ठानप्रकारः 

तत्र सायमग्निहोत्रार्थ सङ्कल्प्य उपवेषेण गार्हपत्यादग्निं ज्वलन्तमुद्धृत्य, तं दक्षिणानेरायतने तूष्णीं स्थापयित्वा, पुनरपि गार्हपत्यादग्निमुद्धृत्य तं मन्त्रेण आहवनीये स्थापयेत् । ततो यजमान इध्मकाष्ठानि स्वयमाहृतानि त्रिष्वप्यग्निषु क्रमेण निदध्यात् । ततोऽग्नीन् गन्धपुष्पादिभिरलङ्कृत्य, उदगग्रैः प्रागग्रैश्च दर्भः (कुशैः) परिस्तीर्य, या यजमानस्य आमिहोत्री गौः तां विहारस्य" दक्षिणत आनीय अवस्थाप्य, सूर्यास्तादनन्तरं तां दुग्ध्वा दुग्धं पयः श्रपणार्थायां कुम्म्यां निनीय, आहवनीयगाईपत्यदक्षिणाग्नीन् क्रमेण जलेन परिषिच्य, गार्हपत्यादारभ्य आहवनीयपर्यन्तम् अविच्छिन्नामुदकधारां वेद्यां प्रस्ताव्य, गार्हपत्याग्नेः कांश्चन 

_____________________________________________________________________________

  • क. सूर्योदयादनन्तरं यच्छाखिनोऽमिहोत्र कर्तव्यतया विहितं स उदितहोमी। ततः पूर्व तत् कुर्वाणा अनुदितहोमिनः । 
  • ख. यस्याः पयो दुग्ध्वा अमिहोत्रं क्रियते सा आमिहोत्री गौः। - 
  • ग. विहारो यशानुष्ठानस्थानम् । १. आप. श्री. ६. ३. ८-१४. बौ. श्री. ३. ४. का. श्री. ४.१४. १.

YagnaTathwa Prakashika -020

 



अग्निहोत्रनिरूपणम् 

  • वत्सतयः तिस्रः (अध्वर्यवे दानाय) 
  • यज्ञियवृक्षकाष्ठानि (अग्निसमिन्धनार्थम् ) 
  • अश्वः (अग्न्यायतनेषु पदनिक्षेपणाद्यर्थम् ) 
  • अजः (आयतनसमीपे बन्धनार्थम् ) दक्षिणार्थं च । 
  • सिकताः (अग्निभिः सह ग्रहणार्थम् ) (उपयमनार्थम्स) 
  • रथचक्रम् (आवर्तनार्थम्") 
  • गौः (विदेवनार्थम् )  

आधानार्थदक्षिणाद्रव्याणि- 

  1. (१) द्वादश गावः 
  2. (२) अजः 
  3. (३) पूर्णपात्रम् 
  4. (४) वासः 
  5. (५) मिथुनौ गावौ (स्त्रीपुंसरूपौ) नवीनो रथः 
  6. (७) वहनसमर्थोऽश्वः 
  7. (८) अनड्वान् ॥ 

चत्वार ऋत्विजः--

  1. अध्वर्युः
  2. ब्रह्मा
  3. होता
  4. आग्नीध्रश्च

एवं पवमानेष्टयादीनामप्यत्र अनुष्ठेयत्वात् ऐष्टिकपात्राणामप्यस्त्यावश्यकता । परं दर्शपूर्णमासप्रकरण एव तानि प्रदर्शनमर्हन्तीति तत्रैव प्रदश्यन्ते । अतस्तेषां स्वरूपं तत एव अवगन्तव्यम् ।। 

॥ इत्यग्न्याधानं समाप्तम् ॥ 

अग्निहोत्रम् 

एवं पूर्वोक्तप्रकारेण कृताधानः त्रैवर्णिकः आहिताग्निपदवाच्यो भवति । तस्यैव सपत्नीकस्य श्रौतकर्मस्वधिकारः । तानि च श्रौतकर्माणि वेदेषु परस्सहस्राणि विहितानि । तेषां नामतो निर्देशस्त्वन्ते चिकीर्ण्यते । इदानीं तेषामेव केषांचित् स्वरूपं विलिख्यते । तेषु कर्मसु अग्निहोत्रमेव प्रथमपातीति तस्यैव स्वरूपं वित्रियते । तच्च पुरुषेण त्रैवर्णिकेन 

_______________________________________________________________________________

क. वत्सभावमतिकान्ताः निवृत्तस्तन्यपानाः वत्सतर्यः । ख. पाने अमेरधः पार्श्वेषु च सिकतानां स्थापनमुपयमनम् । ग. पुनः पुनरश्वस्य दक्षिणभागे रथचक्रस्य भ्रामणम् । घ. अष्टाविंशत्युत्तरशतसङ्ख्याकमुष्टिपरिमितं ब्रीहियवादिधान्यं पूर्णपात्रमित्युच्यते । ___ ङ. अकृतविवाहस्य श्रौतेपु कर्मस्वधिकारो नास्ति । मृतपत्नीकस्य स्वमिहोत्रदर्शपूर्णमासयोरधिकारो भवतीति रुद्रदत्तः प्रसाधयति । परमपत्नीकस्य अमिहोत्राद्यनुष्ठानं शिष्टसम्प्रदाये नास्ति ।

YagnaTathwa Prakashika -019

 

यज्ञतत्वप्रकाश 

आधानौपयिकानि द्रव्याणि पात्राणि च 

अरणिद्वयम् (अधरारणिः, उतरारणिश्च) अग्निमथनार्थम् ॥ मन्थिप्रमन्थिनौ । तदर्थमेव । 

अष्टौ पार्थिवास्सम्भाराः-(मृत्सम्बद्धाः) 

  1. (१) सिकताः। 
  2. (५) शर्कराः (क्षुद्रपापाणाः) ।
  3.  (२) उपरमृत् । (६) वल्मीकमृत् । 
  4. (३) मूषिकोत्खाता मृत् ।
  5.  (७) शूकर(वराह) मुखोत्खाता मृत्। .. 
  6. (४) अशोष्यजलाशयमृत् ।
  7.  (८) हिरण्यम् । 

अग्निनिधानात् पूर्वमेते कुण्डेषु क्षेपणीयाः ॥ 

सप्त वृक्षसम्बन्धिनः सम्भाराः---- 

  1. (१) अश्वत्थकाष्ठशकलानि । 
  2. (५) पलाशवृक्षकाठशकलानि । 
  3. (२) औदुम्बरकाष्ठशकलानि । 
  4. (६) विकङ्कतवृक्षशकलानि । 
  5. (३) शमीवृक्षकाष्ठशकलानि । 
  6. (७) पद्मात्राणि च । 
  7. (४) अशनिहतवृक्षकाष्ठशकलानि ।।

 शीतजलमुष्णजलं च (पत्नीयजमानयोः स्नानार्थम् ) 

दुकूलवस्त्राणि (तयोरेव परिधानार्थम् ) 

ग्रामादिचिह्नभूतस्य अश्वत्थवृक्षस्य फलवत्यः तिस्रः समिधः (ब्राझौदनिकामावाधानार्थम् ) ॥ 

  • अश्वत्थवृक्षीयाः समिधो नव  
  • शमीमय्यः समिधो द्वादश 
  • वैककत्यः समिधस्तिस्रः

(गार्हपत्यादिषु विष्वष्यग्निपु  तदा तदा निक्षेपणार्थमेव  विध्यनुरोधेन) 


पैत्तलं ताम्रमयं वा पात्रम् (ब्रह्मौदनपाकार्थम् ) 

शरावाः (तत्तदग्निप्रणयनार्थम् ) 

दीं पैत्तली ताम्रमयी वा (ब्रह्मौदनोद्धरणार्थम् ) 

घृतं गव्यं माहिर्ष वा (होमाभिधारणाद्यर्थम् ) 

_______________________________________________________________________

क. अरण्ये स्थितस्य वृक्षस्य यस्योपरि अशनिः पतति, तेन च यो हतः सोऽशनिहतो वृक्षः॥ 

_____________________________________________________________________

१. See. आप. श्री. ५. १. २. बौधा. २. १२. -

YagnaTathwa Prakashika -025

  यज्ञतत्त्वप्रकाशे   धार्यः । इतरावग्नी तत्तत्कर्मकाले गार्हपत्यादुद्धृत्य स्वस्वायतने स्थाप्यते । यदर्थमुद्धृतौ तौ तत्कर्मसमाप्यनन्तरं तथै...